श्वः कार्यमद्य कुर्वीत...

विकिसूक्तिः तः


सुभाषितम्

श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
न हि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् ॥

महाभारते शान्तिपर्व २७७ -

śvaḥ kāryamadya kurvīta pūrvāhṇe cāparāhṇikam ।
na hi pratīkṣate mṛtyuḥ kṛtamasya na vā kṛtam ॥

पदच्छेदः

श्वः, कार्यम्, अद्य, कुर्वीत, पूर्वाह्णे, च, अपराह्णिकम्, न, हि, प्रतीक्षते, मृत्युः, कृतम्, अस्य, न, वा, कृतम् ॥


तात्पर्यम्

श्वस्तनं कार्यम् अद्य एव करणीयम् । अपराह्णे यत् कर्तव्यं तत् पूर्वाह्णे समापनीयम् । एतेन कार्यं समापितम् उत न इति विचार्य मृत्युः न प्रतीक्षते ।


आङ्ग्लार्थः

A person should complete today itself a task which he is expected to complete tomorrow. He should complete his task of this afternoon, this forenoon itself. Because when death comes, it does not wait to see whether a work is completed or not.