श्वोभावा मर्त्यस्य यदन्तकैतत्...

विकिसूक्तिः तः

श्वोभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः । - काठकोपनिषत् १-१-२६

भो मृत्यो, एते भोगराशयः सर्वेऽपि अनित्या एव । तथा एते भोगाः इन्द्रियशक्तीः नाशयन्त्येव ॥

नचिकेतसः मुखात् निर्गतोऽयम् उद्गारः सकलमुमुक्षूणामपि बीजमन्त्रवत् विद्यते । ये मुमुक्षवः इमं
बीजमन्त्रं जपन्तः अस्य अन्तरार्थं सदा अनुसन्दधते, तेषां विवेकवैराग्योदयद्वारा अवश्यमेव चित्तशुद्धिर्जायते,
तदनन्तरं वेदान्तवाक्यार्थविचारेण नूनम् आत्मज्ञानं जायते ॥

श्रोत्र त्वक् नेत्र जिह्वा घ्राणानि पञ्च ज्ञानेन्द्रियाणि । तेषां शब्दस्पर्शरूपरसगन्धाः पञ्च विषयाः । विषयानुरक्तिरूपाः
इमे भोगाः सर्वेन्द्रियाणां पटुत्वशक्तिं नाशयन्ति इति विवेकिनो नचिकेतसः आशयः । मुमुक्षोः बीजमंत्रोऽयं भवति ।
इन्द्रियभोगानुरागमग्नस्य जन्म व्यर्थमेव । अन्ते च अयं सर्वनाशमेव एति । तस्मात् मुमुक्षुः विषयभोगेभ्यः विरक्तः
सन् सदा वेदान्तार्थमेव मननं कुर्यात् । इयमेव हि विवेकिनो मुमुक्षोः विचारधारा ॥