संहतिः श्रेयसी पुंसां...

विकिसूक्तिः तः

सुभाषितम्

संहतिः श्रेयसी पुंसां स्वकुलैरल्पकैरपि ।
तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥




तात्पर्यम्

मानवेषु ऐक्यम् अत्यवश्यम् । प्राणिनः क्षुद्राः चेदपि सङ्घटनस्य कारणतः बलं प्राप्नुवन्ति । तुषः निरुपयोगी इति निष्कासितः चेत् तण्डुलाः न वर्धन्ते एव ।