सज्जनप्रशंसा
सत्प्रशंसा
[सम्पाद्यताम्]<poem> सङ्गस्तु सर्वथा त्याज्यः सङ्गं त्यक्तुं न शक्यते। साधुभिः सह कर्तव्यं सतां सङ्गो हि भेषजम्॥
तत्रोपजग्मुः भुवनं पुनानाम्
महानुभावो मुनयश्च शिष्याः।
स्वहं हि तीर्थानि पुनन्ति सन्तः॥
मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारं श्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून् पर्वतीकृत्यनित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः॥
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम्।
अजातशत्रवः शान्ताः साधवः साधुभूषणः॥
रत्नाकरः किं कुरुते स्वरत्नैः
विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डै र्मलयाचलः किं
परोपकाराय सतां विभूतयः ॥
असज्जनः सज्जनसंगि संगात्
करोति दुःसाध्यमपीह साध्यम् ।
पुष्पाश्रयात् शम्भुशिरोधिरूढा
पिपीलिका चुम्बति चन्द्रबिम्बम् ॥
कीर्तिनृत्यति नर्तकीव भुवने विद्योतते साधुता
ज्योत्स्नेव प्रतिभा सभासु सरसा गङ्गेव संमीलति ।
चित्तं रञ्जयति प्रियेव सततं सम्पत् प्रसादोचिता
सङ्गत्या न भवेत् सतां किल भवेत् किं किं न लोकोत्तरम् ॥
कल्पद्रुमः कल्पितमेव सूते
सा कामधुक् कामितमेव दोग्धि ।
चिन्तामणिश्र्चिन्तितमेव दत्ते
सतां हि संगः सकलं प्रसूते ॥
दूरीकरोति कुमतिं विमलीकरोति
चेतश्र्चिरन्तनमघं चुलुकीकरोति ।
भूतेषु किं च करुणां बहुलीकरोति
सङ्गः सतां किमु न मङ्गलमातनोति ॥
हरति हृदयबन्धं कर्मपाशार्दितानाम्
वितरति पदमुच्चैरल्पजल्पैकभाजाम् ।
जननमरणकर्मभ्रान्तविश्रान्तिहेतुः
त्रिजगति मनुजानां दुर्लभः साधुसङ्गः ॥
नलिनीदलगतजलवत्तरलं
तद्वज्जीवनमतिशयचपलम् ।
क्षणमपि सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥
तत्त्वं चिन्तय सततं चित्ते
परिहर चिन्तां नश्र्वरचित्ते ।
क्षणमिह सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥
मोक्षद्वारप्रतीहाराश्चत्वारः परिकीर्तिताः
शमो विवेकः सन्तोषः चतुर्थः साधुसङ्गमः ॥
जाड्यं धियो हरति सिञ्चति वाचि सत्यम्
मानोन्नतिं दिशति पापमपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिम्
सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥
संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे ।
सुभाषितरसास्वादः सङ्गतिः सुजनैः सह ॥