सत्यं तपो ज्ञानमहिंसतां च...

विकिसूक्तिः तः

सुभाषितम्

सत्यं तपो ज्ञानमहिंसतां च विद्वत्प्रणामं च सुशीलतां च ।
एतानि यो धारयते स विद्वान् न केवलं यः पठते स विद्वान् ॥




तात्पर्यम्

सत्यं, तपः, ज्ञानम्, अहिंसा, विदुषां विषये गौरवभावः, उत्तमः व्यवहारः - एते गुणाः यस्मिन् विद्येत सः एव वस्तुतः विद्वान् । अधीतवान् इत्यतः मात्रं विद्वान् न भविष्यति ।