सत्यं वद । धर्मं चर...

विकिसूक्तिः तः

सत्यं वद । धर्मं चर । स्वाध्यायात् मा प्रमदः ॥ - तैत्तिरीयोपनिषत् १-११

सत्यमेव वद, धर्ममेव आचर, स्वाध्यायात् प्रमत्तो मा भव ॥

आचार्येण हि शिष्याय क्रियमाणः उपदेशोऽयम् । सद्गुरुसेवापरायणः शिष्यः गुरोः सकाशात्
वेदविद्यां कृत्स्नतया अधीत्य गुरुगृहात् स्वगृहं प्रति यदा जिगमिषति, तदा गुरुणा प्रीत्या स्वशिष्यं
प्रति क्रियमाणोऽयम् उपदेशः, आदेशश्च ॥

अत्रमन्त्रे प्राधान्येन उपदेशत्रयं गुरुणा क्रियते । ते च त्रयः उपदेशाः इमे, सत्यवचनम्, धर्माचरणम्,
स्वाध्यायानुष्ठानं च । एतानि साधनानि अनुतिष्ठतः अभ्युदयफलानि लभ्यन्ते ॥
सत्यवचनम् नाम अतिमुख्यं तपः । सत्यात् नास्ति परं तपः । सत्यमेव परं तपः । अतः सत्यमेव वक्तव्यम् ॥
धर्माचरणम् नाम अहिंसा जपशमदमादयः । ते च धर्मस्य रूपान्तराणि । धर्म एव सदा अनुष्ठेयः, न कदापि अधर्मः ॥
स्वाध्यायो नाम वेदाध्ययनम् । एतानि कर्तव्यान्येव ॥

"https://sa.wikiquote.org/w/index.php?title=सत्यं_वद_।_धर्मं_चर...&oldid=16419" इत्यस्माद् प्रतिप्राप्तम्