सदस्यः:Dwitikrushnapanigrahi

विकिसूक्तिः तः

किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते |

नग्नक्षपणके देशे रजकः किं करिष्यति ||

यस्मिन् स्थाने श्रोतारः न भवन्ति तत्र कथावाचकस्य आवश्यकता का ? यस्मिन् देशे साधवः वस्त्रमेव न धरन्ति तत्र रजकस्य आवश्यकता न भवति ननु |

दाता दरिद्रः कृपणो धनाढ्यः

पापी चिरायुः सकृती गतायुः|

परेषु सख्यं स्वजनेषु वैरं

पश्यन्तु लोकाः कलि कौतुकानि ||

यः दानं ददाति सः दरिद्रः अभवत् , कृपणः (धनसञ्चेता) सः धनिकः अभवत्, पापी दीर्घायुः अवाप्नोत्, कर्मठः (परोपकारी) तस्य आयुः क्षीणम् अवाप्नोत् | परजनेषु मित्रवत् वयवहारः स्ववान्धवेषु शत्रुवत् व्यवहारः अयं कलियुगे जनाः कलिप्रतापेन आहताः एव सन्ति |

"https://sa.wikiquote.org/w/index.php?title=सदस्यः:Dwitikrushnapanigrahi&oldid=16955" इत्यस्माद् प्रतिप्राप्तम्