सद्वृत्तयः प्रकाशन्ते...

विकिसूक्तिः तः

सुभाषितम्

सद्वृत्तयः प्रकाशन्ते क्षीयन्ते दुष्टवृत्तयः ।
सुसंहिते समाजे ही रमन्ते खलु देवताः ॥




तात्पर्यम्

समाजः सङ्घटितः चेत् उत्तमाः मनोवृत्तयः प्रकाशिताः भवन्ति । दुष्टाः अहितकारिण्यः वृत्तयः नष्टाः भवन्ति । देवताः अत्र आनन्दम् अनुभवन्ति ।