सन्मूलाः सोम्य इमाः...

विकिसूक्तिः तः

सर्वस्यापि विश्वस्य ब्रह्मैव कारणम्

सन्मूलाः सोम्य इमाः सर्वाः प्रजाः सदायतनाः
सत्प्रतिष्ठाः । - छान्दोग्योपनिषत् ६-८-४

हे सोम्य, श्वेतकेतो, इमाः सर्वाः प्रजाः सन्मूलाः, सदायतनाः,
सत्प्रतिष्ठाश्च ।

छान्दोग्योपनिषदि प्रसिद्धोऽयं मन्त्रः । पित्रा उद्दालकेन स्वप्रियपुत्रं
श्वेतकेतुं प्रति उपदिष्टोऽयम् मन्त्रः । सर्वासाम् उपनिषदां
सन्देशसारभूतोऽयं मन्त्रः । वेदान्तदर्शनस्य विशेषं महत्त्वं
प्रतिपादयति मन्त्रराजोऽयम् ॥

इमाः सर्वाः प्रजाः सत एव आगताः । अत्र प्रजा इति न केवलं
मनुष्याः, किन्तु सर्वेऽपि प्राणिनः । स्थावरजङ्गमात्मकाः इमे
सर्वेऽपि प्राणिनः सद्रूपात् ब्रह्मण एव जाताः, ब्रह्मण्येव जीवन्तः,
अन्ते ब्रह्मण्येव लीयन्ते च । इदं जगत् सदा सद्रूपमेव ब्रह्म ॥

घटाकाशो महाकाशादेव आगत्य, महाकाशे एव स्थित्वा, महाकाशे
एव लीयते च । उत्पत्तिस्थितिलयकालेषु घटाकाशः महाकाश एव
यथा, एवमेव जगदिदं सर्वं ब्रह्मैव । सद्रूपं ब्रह्म विहाय प्राणिनो
वा जगद्वा नैव सन्ति । इयानेव सर्ववेदान्तानां सन्देशसारः ॥

"https://sa.wikiquote.org/w/index.php?title=सन्मूलाः_सोम्य_इमाः...&oldid=16386" इत्यस्माद् प्रतिप्राप्तम्