समे शुचौ शर्करावह्निवालुका...

विकिसूक्तिः तः
Jump to navigation Jump to search

समे शुचौ शर्करावह्निवालुका-
विवर्जिते शब्दजलाश्रयादिभिः ।
मनोऽनुकूले न तु चक्षुपीडने
गुहानिवाताश्रयणे प्रयोजयेत् ॥ - श्वेताश्वतरोपनिषत् २-१०

समे, शुद्धे, शर्कराग्निपुलिनकंटाकादिरहिते, शब्दजलगृहादि
वर्जिते, मानसानुकूले, नेत्रपीडारहिते, अधिकवायुरहिते
गुहादिस्थले साधकः ध्यायन् आत्मनः मनः प्रत्यगात्मनि
स्थापयेत् ।

ध्यानचिकीर्षोः साधकस्य अनुकूलं शान्तं स्थानम् अत्र
उपदिष्टमस्ति । ध्यानोचितो देशः ध्यायतः साधकस्य मनसि
उत्तमं फलं ददाति । जनसंसदि कृतं ध्यानं कथम् ? आश्रमे
कृतं ध्यानं कथम् ? भवतु । तत् ध्यानस्थानं कथं भवेत् ?
इति उच्यते ॥

ध्यानस्थानं समं भवेत् । नात्युच्चं नातिनीचं भवेत् । तत्र
ध्यानदेशे शर्कराः (चूर्णपाषाणाः), कण्टकानि, सर्पवृश्चिकादयः,
व्याघ्रसिंहादयः न भवेयुः । असंस्कृतानां जनानां संसत् न तत्र
भवेत् । ध्यानदेशः शान्तः शुद्धः एकान्तश्चेत् तत्र देशे मनः
सुलभतया स्वयमपि शान्तं भवति ॥