सम्पत्सु महतां चित्तम्...

विकिसूक्तिः तः

सुभाषितम्

सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥ नीतिशतकम् – ६६




तात्पर्यम्

सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति । कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति । किन्तु महापुरुषाः न तथा । सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति । आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति । महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति ।