सर्वदा कलहायन्ते...

विकिसूक्तिः तः

सुभाषितम्

सर्वदा कलहायन्ते यावद् विघटिता जनाः ।
वर्धतेऽन्योन्यसौहार्दं प्रवृद्धे सङ्घजीवने ॥




तात्पर्यम्

ऐक्यं यदि न स्यात् तर्हि सर्वदा कलहः भवति, साङ्घिकं जीवनं वर्धते चेत् स्नेहभावः अपि वर्धते ।

"https://sa.wikiquote.org/w/index.php?title=सर्वदा_कलहायन्ते...&oldid=15029" इत्यस्माद् प्रतिप्राप्तम्