सर्वाजीवे सर्वसंस्थे...

विकिसूक्तिः तः

सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं
प्रेरितारं च मत्वा । - श्वेताश्वतरोपनिषत् १-६

सर्वप्राणिनाम् आश्रयभूते, लयभूते च, बृहति, अस्मिन् ब्रह्मचक्रे, 'अहम् अन्यः, परमात्मा
च अन्यः' इति मत्वा अयं जीवः सर्वदा संसारचक्रे भ्राम्यति ॥

परमात्मन एव सकलजीवराशयः उत्पन्नाः सन्तः तस्मिन्नेव लीयन्ते । सः परमात्मा महान् ।
परमार्थतस्तु अयं परमात्मा जीवस्य परमार्थस्वरूपमेव अस्ति । अज्ञानात् तु जीवः 'अहम्
अन्यः, परमात्मा अन्यः' इति मत्वा अस्मिन् ब्रह्मचक्रे संसरति ॥

जन्ममरण सुखदुःख रागद्वेष लाभहानि मानापमान अशनायापिपासादिरूपे संसारसागरे मग्नः
अयं जीवः संसरति । सर्वस्याप्यस्य दुःखस्य प्रधानं कारणं नाम अज्ञानम् । भेदज्ञानेन दुःखम्,
भेदज्ञानेनैव अनर्थप्राप्तिः; अज्ञानेनैव संसारभ्रमः ॥

अस्मात् संसारभ्रमणात् परिहारोपायो नाम आत्मज्ञानमेकमेव । स्वात्मानं विज्ञाय दुःखनिवृत्तिः,
आत्मज्ञानादेव मोक्षः ॥