सर्वे वेदा यत्पदम् आमनन्ति...

विकिसूक्तिः तः

सर्वे वेदा यत्पदम् आमनन्ति तपांसि सर्वाणि च यद्वदन्ति । - काठकोपनिषत् १-२-१५

सर्वे वेदाः यत् तत्त्वम् उपदिशन्ति, सर्वाणि तपांसि च यत्प्राप्त्यर्थानि अनुष्ठीयन्ते तदेव ब्रह्म । तदेव जानीयात् ।

अस्माकं भारतीयसंस्कृतौ अध्ययनयोग्याः ग्रन्थाः लक्षशः विद्यन्ते । न कश्चिदपि तान् सर्वान् ग्रन्थान् एकस्मिन्
जन्मनि पूर्णतया पठितुं समर्थो भवति । तेषां सारतया वेदाः, उपनिषदः, वेदाङ्गानि, महाभारतम्, पुराणानि, इतिहासः
– इति संगृह्यन्ते । एतेऽपि ग्रन्थाः न अल्पसंख्यया विद्यन्ते । सर्वैरप्येतैः वेदशास्त्रैः तात्पर्यतया प्रतिपाद्यमानम् एकमेव
तत्त्वं नाम परं ब्रह्म ॥

तथैव शताधिकानि नानाविधानि तपांसि च विद्यन्ते । तानि शारीरिकाणि, वाचिकानि, ऎन्द्रियकाणि, मानसानि च
भवन्ति । ब्रह्मज्ञानप्राप्तिरेव हि एतेषां सर्वेषां तपसां परमं लक्ष्यम् । मानवजन्मनः परमं लक्ष्यं नाम आत्मज्ञानमेव ।
तदेव हि ब्रह्मज्ञानम् । ब्रह्मावगतिर्हि मोक्षसाधनं भवति ॥