सलिल एको द्रष्टा...
‘वेदान्ते’षु ‘अद्वैतम्’
सलिल एको द्रष्टा अद्वैतो भवति, एष ब्रह्मलोकः सम्राडिति
हैनमनुशशास याज्ञवल्क्यः । - बृहदारण्यकोपनिषत् ४-३-३२
सलिलवत् आत्मा द्रष्टा सन् अद्वैतः । हे सम्राट्, एष एव ब्रह्मलोकः,
इति एनं जनकं राजानम् अनुशशास याज्ञवल्क्यः ॥
अस्मिन् मन्त्रे ‘अद्वैत’ शब्दः श्रूयते । ‘अद्वैतः’ इति आत्मनो विशेषणम् ।
अद्वैतस्वरूपो हि आत्मा । न हि अद्वैतं नाम मतं वा सिद्धान्तो वा भवितुमर्हति ।
जलवत् आत्मा एकस्वरूपः । तोयं सर्वत्रापि एकस्वरूपमेव । स्वभावेन शुद्धमेव
सलिलं नाम । आत्मा अपि सलिलवत् अत्यन्तशुद्धं निर्मलश्च । उपाधिसम्बन्धादेव
हि सलिले मलिनता सम्भवति । एवमेव नित्यशुद्धे अद्वैते आत्मनि अविद्यया
द्वैतम् इव अवभासते ॥
अयमात्मा अभयः अमृतः अद्वैतश्च । सुषुप्तात्मनः स्वरूपम् अस्मिन् मन्त्रे
उपदिश्यते । गाढनिद्रायां हि निरुपाधिकं स्वाभाविकं स्वरूपं विद्यते । अयमेव
ब्रह्मलोकः । सुषुप्तिरेव अत्र ब्रह्मलोकः । ब्रह्मैव लोकः ब्रह्मलोकः । अस्मिन्नेवार्थे
सुषुप्तिः ब्रह्मलोको भवति । जनकाय चक्रवर्तिने याज्ञवल्क्यस्य महर्षेः उपदेशोऽयम् ॥