सस्यमिव मर्त्यः पच्यते...

विकिसूक्तिः तः
Jump to navigation Jump to search

सस्यमिव मर्त्यः पच्यते, सस्यमिव आजायते पुनः । - काठकोपनिषत् १-१-६

मर्त्यः मानवः सस्यवत् वृक्षवत् जायते, म्रियते, पुनर्जायते च ।

मानवः आत्मानं चिरञ्जीविनं मत्वा पापानि कुर्वन् स्वार्थसाधनपरायणो वर्तते । अयं मानवः क्षुद्रस्वार्थसाधनार्थं
यत्किञ्चिदपि कुर्यात् । मातरं पितरं गुरुं देवं च निन्दन् अयं मनुष्यः परमस्वार्थी इति उक्तेऽपि न असाधु वचः ॥

स्वार्थित्वे किं कारणम् ? अहं शाश्वतः, चिरञ्जीवी भूत्वा शताधिकान् संवत्सरान् जीवामि; मां जरा वा मरणं वा न
स्पृशेत् इतिरूपा अविद्या एव अत्र हेतुः । प्रत्यहम् आत्मनः पुरतः म्रियमाणान् शताधिकान् पुरुषान् स्वयमेव पश्यन्नपि
अयं मानवः ‘अहं तु चिरञ्चीवी’ इति मन्यते इति किं नैतत् भ्रान्तिज्ञानम् ?

मानवस्यापि देहः अनित्य एव खलु ? दिह्यते, दह्यते इति देहः । जातो हि मनुष्यः कञ्चित् कालं स्थित्वा, वर्धित्वा,
परिणामान् अनुभूय, क्षीणः सन् अवश्यमेव एकदा म्रियेत् एव । तस्मात् विवेकिना मानवेन, लोभिना स्वार्थिना वञ्चकेन
न भाव्यम् इत्यर्थः ॥