साहाय्यम्:आन्तर्यम्

विकिसूक्तिः तः

मुण्डकोपनिषदथर्ववेदे मन्त्रभागान्तर्गता । उपनिषत्सु संवादकथाखायिकाछलेन ब्रह्मतत्त्वं प्रतिपाद्यते । अस्यामुपनिषद्यपि परब्रह्मतत्त्वचिन्तनं गुरुशिष्ययोः प्रश्नप्रतिवचनद्वारा क्रियते । उपनिषदः प्रारम्भे वंशपरम्परा वर्णितास्ति । तत्र सर्वप्रथमः ब्रह्मा बभूव । सः अथर्वणे ब्रह्मविद्यां ददौ । ततः क्रमशः अङ्गी, भारद्वाजः, अङ्गिरा पराविद्यां प्राप्तवन्तः । "कस्मिन्नु भगवो...” इत्यनेन मन्त्रेण गृहस्थः शौनक अङ्गिरसं प्रश्नं पृच्छति यत् कीदृशज्ञानेन सर्वमिदं विज्ञातं भवतीति । किन्तु तत्र गुरुः प्रश्नस्य साक्षादुत्तरमदत्वा प्रतिवचनस्य क्रममाश्रित्यपरापराविद्ये निर्वर्णयति यत् "द्वे विद्ये वेदितव्ये... परा चैवापरा च” इति । विषयः - महाशालः शौनकोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ यत् कस्मिन्नु भगवो विज्ञाते सर्वविद्भवतीति । वस्तुतस्तु एषः प्रश्नः न सामान्यः । एतादृशः प्रश्नः तेनैव प्रष्टुं शक्यते, यस्य विशेषः जिज्ञासा भवति । किञ्च प्रश्नः तत्रैव उदेति यत्र पूर्वं किञ्चित् तस्मिन् विषये ज्ञानमस्ति अथवा संशयः भवति । यदि पूर्वं किञ्चित् ज्ञातमस्ति तर्हि तर्ककर्तुं शक्यते । किन्तु तथा नास्ति , यतो हि ब्रह्मज्ञानं तर्केण न सम्भवति । अतःउक्तं हि कठोपनिषदि "नैषा तर्केण मतिरापनेया” इति । एवं ज्ञात्वा हि शौनकः गुरुं प्रश्नं करोति । किञ्च प्रश्नः भवति ज्ञानलाभास्य माध्यमः । गीतायामुक्तं हि - "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।।" इति ।। शैनकेन पृष्टस्य प्रश्नस्य साक्षादुत्तरं गुरुः न कथयित्वा क्रममार्गेण उत्तरति यत् "द्वे विद्ये वेदितव्ये...परा चैवापरा च” इति । उत्तरस्य विस्तारार्थं गुरुं सूचिकटाहन्यायेन प्रथममपराविद्यां वर्णयति यत् "तत्रापरा ऋग्वेदो यजुर्वेदः...ज्योतिषमिति” इति षोडषापराविद्या । ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूहः एव ऋग्वेदः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः । यजुंषि गद्यानि । यजुर्वेदो यज्ञविधेरतिसन्निकऋष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च । उद्गाता हि स्वरबद्धान् मन्त्रानुच्चैगायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः । अभिचारक्रिययाः प्राधान्येन प्रतिपादकः वेद अथर्वनामकर्षिणा दृष्टत्वात् अथर्ववेद इत्युच्यते । शिक्षा नाम येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत । ब्राह्मणकाले यागस्य तावान् प्रचारो जातो यत्तेषां यथावज्ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानामावश्यकताऽनुभूतयते स्म, तामेवावश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि । निरुच्यते निःशेषेणोपदिश्यते निर्वचनविधया तत्तदर्थबोधनाय पदजातं यत्र तन्निरुक्तम् । व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेन इति व्याकरणम् । भाषायाः शुद्धये व्याकरणापेक्षा भवत्येव । वेदे मन्त्राणां छन्दोवद्धतया छन्दसां ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते, अतः छन्दशास्त्रं ज्ञेयं भवति । ज्यौतिषं हि कालविज्ञापनं शास्त्रम् । अतः मुहूर्तज्ञानाय ज्यौतिषशास्त्रम् । एवं रुपेण गुरुः अपराविद्यां निर्वर्ण्य पराविद्यां वर्णयति यत् "अथ परा यया तदक्षरमधिगम्यते ।” इति । अधिपूर्वस्य गम्धातोः प्रायशः प्राप्त्यर्थः । यया विद्यया तदक्षरं प्राप्यते, सा विद्या पराविद्या । परमात्मनः प्राप्तिः, परमात्मनः विषयकज्ञानमनयोः नास्ति कश्चन भेदः । यतो हि परमात्मानः प्राप्तिद्वारा अविद्या एव नश्यति अन्यत् किमपि न भवति । ननु अत्र संशयः जायते यत् पराविद्या तु वेदबाह्या, सा विद्या कथं मोक्षसाधनं स्यात् ? इति । किञ्च वेदबाह्याः तु नास्तिकाः भवन्ति । पुनश्च मनुः प्राहः यत् "या वेदबाह्याः स्मृतयो याश्च काश्च कुदुष्टयः सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ।। " इति ।। अपि च उपनिषदेव ब्रह्मविद्यां ज्ञापयति । यदि उपनिषत् वेदान्तर्गता तर्हि परा इति वचनं व्यर्थम् । किञ्च उपनिषत् वेदबाह्या चेत् निष्फला इति चेन्न । कारणं हि पराविद्या इत्यनेन विद्याविषयकज्ञानमभीष्टमस्ति । उपनिषदि अक्षरद्वारा ज्ञापनीयं ज्ञानमेव पराविद्या इत्युच्यते । वेद इत्यनेन तु शब्दराशिः बुद्ध्यते । किञ्च केवलं शब्दार्थस्य ज्ञानेन अक्षरब्रह्मणः बोधः न सम्भवति । अतः ब्रह्मविद्या पृथक्रूपेण पराविद्या इत्युच्यते । पराविद्यायाः वर्णनकाले गुरुः ब्रह्मणः स्वरूपं बोधयति यत् "यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्षमं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ।" इति ।। यत्तत्सर्वशास्त्रप्रसिद्धमक्षरं ब्रह्मेति । अद्रेश्यम् = ज्ञानेन्द्रियैः यत् द्रष्टुमशक्यम् । अग्राह्यम् = कर्मेन्द्रियैः यत् गृहीतुमशक्यम् । अगोत्रम् = मूलरहितं सर्वमूलरूपत्वात् कुलहीनं वा । अवर्णम् = ब्राह्मणादिरहितम् । अचक्षुः श्रेत्रं तदपाणिपादम् = ज्ञानकर्मेन्द्रियरहितम् । नित्यम् = आद्यन्तशून्यम् । विभुम् = व्यापकम् । सर्वगतम् = सर्वस्यान्तः प्रविश्य स्थितम् । अव्ययम् = अविनाशि । अत्र प्रश्न उदेति यत् अक्षरब्रह्म सर्वेषां कारणं भवति, किन्तु कथमिति । प्रसिद्धः लौकिकोदाहरणेन बोधयति हि "यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात्सम्भवतीह विश्वम् ।।" इति ।। उपसंहारः - ऋग्वेदः यजुर्वेदः सामवेद अथर्ववेद शिक्षा कल्पं निरुक्तं व्याकरणं छन्दः ज्योतिषमिति षोडषापराविद्या । अत्र अपराविद्या इत्यनेन शब्दराशिः उच्यते । यः शास्त्रज्ञः तथा व्यवत्पन्नः तस्य शब्दार्थस्य ज्ञानं भवति । यया विद्यया अक्षरमधिगम्य़ते सा विद्या एव पराविद्या उच्यते । किञ्च पराविद्यायाः कृते गुरोपदेशः तथा वैराग्यमपेक्षते । इति शम् ।

"https://sa.wikiquote.org/w/index.php?title=साहाय्यम्:आन्तर्यम्&oldid=11610" इत्यस्माद् प्रतिप्राप्तम्