साहित्यसङ्गीतकलाविहीनः...

विकिसूक्तिः तः

सुभाषितम्

साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ॥ सु.भा. - कुपण्डितनिन्दा (४१/३०)




तात्पर्यम्

गद्यात्मकं पद्यात्मकं च काव्यं, विचारप्रधानं शास्त्रं च साहित्यशब्देन विवक्षितम् । साहित्येन ज्ञानम् अभिवर्धते, सङ्गीतेन, शिल्पेन (कलया) च आत्मसन्तोषः भवति । एषु त्रिषु एकस्य वा ज्ञानं मानवस्य आवश्यकम् । एकस्मिन् अपि विषये यस्य उत्साहः न भवति सः पशुः एव । पशोः पुच्छं शृङ्गे च भवन्ति, एतस्य मनुष्यस्य तु तानि न सन्ति इत्येव भेदः । अपरोऽपि भेदः अस्ति यत् एषः तृणं न खादति, पशवः तु खादन्ति । किन्तु एतत् पशूनां परमं भाग्यमेव । अन्यथा पशूनां तृणम् एव दुर्लभं स्यात् !