सीमन्तिनीषु का शान्ता ?...

विकिसूक्तिः तः

सीमन्तिनीषु का शान्ता ? राजा कोऽभूत् गुणोत्तमः ?
विदुषां का सदा वन्द्या ? अत्रैवोक्तं, न बुध्यते ।

स्त्रीषु शान्ता का ? गुणैः उत्तमः राजा कः ? पण्डितानाम् आदरपात्रः कः ?
एतेषां प्रश्नानाम् उत्तरम् अत्रैव उक्तमस्ति, किन्तु न ज्ञायते ।

उत्तरम्

सीता, रामः, विद्या