सुभाषितरत्नकरण्डकम् (ध्यानकथा)

विकिसूक्तिः तः

॥अथ ध्यानकथा॥

क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदं आप्नुवन्ति ।
बोध्यङ्गदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुं । । १८२ । ।

जन्मप्रबन्धकरणैकनिमित्तभूतान्रागादिदोषनिचयान्प्रविदार्य सर्वान् ।
आकाशतुल्यमनसः समलोष्टहेमा ध्यानाद्भवन्ति मनुजा गुणहेतुभूताः । । १८३ । ।

जित्वा क्लेशारिवृन्दं शुभबलमथने सर्वथालब्धलक्ष्यं
प्राप्ताः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभां अन्यभूतैः ।
सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्रा
ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुरार्या गुणौघाः । । १८४ । ।

मोहान्धकारं प्रविदार्य शश्वज्ज्ञानावभासं कुरुते समन्तात् ।
संबुद्धसूर्यः सुरमानुषाणां हेतुः स तत्र प्रवरः समाधिः । । १८५ । ।

 । । इति ध्यानकथा । ।