सुभाषितरत्नकरण्डकम् (मण्डलकथा)
दिखावट
(सुभाषितग्रन्थाः/सुभाषितरत्नकरण्डकम्/मण्डलकथा इत्यस्मात् पुनर्निर्दिष्टम्)
॥ अथ मण्डलकथा ॥
भवति कनकवर्णः सर्वरोगैर्विमुक्तः सुरमनुजविशिष्टश्चन्द्रवद्दीप्तकान्तिः ।
धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहेऽस्मिन्मण्डलं यः करोति । । ६५ । ।
ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर्विमुक्ताः ।
बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि । । ६६ । ।
दानं गोमयं अम्बुना च सहितं शीलं च संमार्जनं
क्षान्तिः क्षुद्रपिपीलिकापनयनं वीर्यं क्रियोत्थापनं ।
ध्यानं तत्क्षणं एकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला
एताः पारमिताः षडेव लभते कृत्वा मुनेर्मण्डलं । । ६७ । ।
दिव्यैः सुखैः सकलभोगवरैश्च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः ।
पद्माननाः स्वविकलाङ्गविशालनेत्राः पुष्पैर्गणस्य विविधैर्वसुधां विचित्र्य । । ६८ । ।
। । इति मण्डलकथा । ।