सुभाषितरत्नभाण्डागारम् (२ सामान्यप्रकरणम्)

विकिसूक्तिः तः
Jump to navigation Jump to search
सुभाषितप्रशंसा

भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती।
तस्माद्धिकाव्यं मधुरं तस्मादपि सुभाषितम्॥१॥
सुभाषितेन गीतेन युवतीनां च लीलया।
मनो न भिद्यते यस्य सयोगी ह्यथवा पशुः॥२॥


विद्याप्रशंसा
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति संचयात्॥१॥
अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम्।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः॥२॥



काव्यप्रशंसा
कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि।
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा॥१॥

नाट्यप्रशंसा
प्रत्यङ्कमङ्कुरितसर्वरसावतारनवुओल्लसत्कुसुमराजिविराजिबन्धम्।
धर्मेतरांशुरिव वक्रतयातिरम्यं नाट्यप्रबन्धमतिमञ्जुलसंविधानम्॥१॥
देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्॥२॥


कुकाव्यनिन्दा
किं तेन किल काव्येन मृद्यमानस्य यस्य ताः।
उदघेरिव नायान्ति रसामृतपरम्पराः॥१॥
किं तेन काव्यमधुना प्लाविता रसनिर्झरैः।
जडात्मनोऽपि नो यस्य भवन्त्यङ्कुरितान्तराः॥२॥
यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो हृदि मन्मथानलः।
तदात्र भूयः किमनर्थपण्डितैः कुकाव्यहव्याहुतयो निवेशिताः॥३॥
तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्दृद्गतं मात्सर्यावृतचेतसां रसवशादप्युद्गतिं लोमसु।
काम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम्॥४॥
या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी।
या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्तिर्यच्चोऽपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः॥५॥


सामान्यकविप्रशंसा
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।
नास्ति येषां यशः काये जरामरणजं भयम्॥१॥
प्रस्तावे हेतुयुक्तानि यः पठत्यविशङ्कितः।
स कविस्तानि काव्यानि काव्ये तस्य परिश्रमः॥२॥
सुकवेः शब्दसौभाग्यं सुकविर्वेत्ति नापरः।
कलादवन्न जानाति परः कङ्कणचित्रताम्॥३॥
सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे।
उत्पादका न बहवः कवयः शरभा इव॥४॥
कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः।
न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः॥५॥

विशिष्टकविप्रशंसा

अमरसिंहः
प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने।
अगम्यायामन्यैर्दिशि परिणतावर्थवचसोर्मतं चेदस्माकं कविरमरसिंहोविजयते॥१॥

कालिदासः
कवयः कालिदासाद्याः कवयो वयमप्यमी।
पर्वते परमाणौच पदार्थत्वं प्रतिष्ठितम्॥२॥
निर्गतामलवाक्यस्य कालिदासस्य सूक्तिषु।
प्रीतिर्मधुरसार्दासु मञ्जरीष्विव जायते॥३॥

कुकविनिन्दा
अप्रगल्बाः पदन्यासे जननीरगहेतवः।
सत्येके बहुलालापाः कवयो बालका इव॥१॥
कविभिर्नृपसेवासु वित्तालङ्कारकारिणी ।
वाणी वेश्येव लोभेन परोपकरणीकृता ॥२॥


पण्डितप्रशंसा
पण्डिते हि गुणाः सर्वे दोषाश्च केवलाः।
तस्मान्मूर्खसहस्रेभ्यः प्राज्ञा एको विशिष्यते॥१॥
यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि।
निरस्तपादपे देशे एरण्डोऽपि द्रुमायते॥२॥
किं कुलेन विशालेन विद्या हीनस्य देहिनः।
अकुलीनोऽपि विद्यावान्देवैरपि स पूज्यते॥३॥



कुपण्डितनिन्दा
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति॥१॥
मूर्खचिह्नानि षशिति गर्वो दुर्वचनं मुखे।
विरोधी विषवादी च कृत्याकृत्यं न मन्यते॥२॥
मूर्खो हि जल्पतां पुंसां श्रृत्वा वाचः शुभाशुभाः।
अशुभं वाक्यमादत्ते पुरीषमिव शूकरः॥३॥
उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये।
पयः पानं भुजंगानां केवलं विषवर्धनम्॥४॥
वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह।
न मूर्खजनसंपर्कः सुरेन्द्रभवनेष्वपि॥५॥


छान्दसप्रशंसा
नाध्यापयिष्यन्निगमाश्रमेणोपाध्यायलोका यदि शिष्यवर्गान्।
निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त तदाभविष्यत्॥१॥


छान्दसनिन्दा
आः कष्टमप्रहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः।
अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिम्॥१॥


वैयाकरणप्रशंसा
वैयाकरणकिरातादपशब्दमृगाः क्व यान्ति संत्रस्ताः।
ज्योतिर्नटविटगायकभिषगाननगह्वराणि यदि न स्युः॥१॥
यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।
स्वजनः श्वजनो मा भूत्सकलं शकलं सकृच्छकृत्॥२॥
कृतदुरितनिराकरणं व्याकरणं चतुरधीरधीयानः।
बुधगणगणनावसरे कनिष्ठिकायां परं जयति॥३॥
सूत्रं पाणिनिबद्धं कलयन्पुरुषः समुद्वहति सुदृशम्।
वर्णादीनां धर्मान्बुद्ध्वा विधिवत्प्रयुङ्क्तेऽसौ॥४॥
पातंजले विष्णुपदापगायापातञ्जले चापि नयेऽवगाहम्।
आचक्षते शुद्धिदमा प्रसूतेरा च क्षते रागमधोक्षजे च॥५॥
नृणामनभ्यस्तफणाभृदीशगिरां दुरापा बुधराजगोष्ठि।
अबुद्धचापश्रुतिपद्धतीनां युद्धक्षमेवोद्धृसार्था॥६॥
नाङ्गीकृतव्याकरणौषधानामपाटवं वाचि सुगाढमास्ते।
कस्मिंश्चिदुक्ते तु पदे कथंचित्स्वैरं वपुः स्विद्यति वेपते च॥७॥
शब्दशास्त्रमनधीत्य यः पुनान्वक्तुमिच्छति वचः सभान्तरे।
बन्धुमिच्छति वने मदोत्कटं हस्तिनं कमलनालतन्तुना॥८॥


वैयाकरणनिन्दा
टिड्ढाणञ्द्वयसच्चुतूङसिङसोस्तिप्तस्झिसिप्थस्थमिब्वस्मस्ताहशिचष्टुनाष्टुरतइशश्छोऽट्यचोऽन्त्यादिति।
लोपोव्योर्वलिवृद्विरेचियचिभंदाधाध्वदाप्छेचटेरित्यब्दानखीलान्नयन्ति कतिचिच्छब्दान्पठन्तः कटून्॥१॥
सूत्रैः पाणिनिनिर्मितैर्बहुतरैर्निष्पाद्य शब्दावलिं वैकुण्ठस्तवमक्षमा रचयितुं मिथ्याश्रमाः शाब्दिकाः।
पक्वान्नं विविधं श्रमेण विविधापूपाग्र्यसूपान्वितं मन्दाग्नीननुरुन्धते मितबलानाघ्रातुमप्यक्षमान्॥२॥

नैयायिकप्रशंसा
अद्भुतस्तर्कपाथोधिरगाधो यस्य वर्धकः।
अक्षपादोऽतमःस्पृष्टस्त्वकलङ्कः कलानिधिः॥१॥
अपरीक्षितलक्षणप्रमाणैरपरामृष्टपदार्थसार्थतत्त्वैः।
अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः॥२॥
मोहं रुणद्धि विमलीकुरुते च बुद्धिं सूते च संस्कृतपदव्यवहारशक्तिम्।
शास्त्रान्तराभ्यासनयोग्यतया युनक्ति तर्कश्रमो न तनुते किमिहोपकारम्॥३॥
ज्ञानाब्धिरक्षिचरणः कणभक्षकश्च श्रीपक्षिलोऽप्युदयनः स च वर्धमानः।
गङ्गेश्वरः शशधरो बहवश्च नव्या ग्रन्थैर्व्यरुन्धत इमे हृदयान्धकारम्॥४॥
प्रायः काव्यैर्गमितवयसः पाणिनीयाम्बुराशेः सारज्ञस्याप्यपरिकलितन्यायशास्त्रस्य पुंसः।
वादारम्भे वदितुमनसो वाक्यमेकं सभायां प्रह्वा जिह्वा भवति कियतीं पश्य कष्टामवस्थाम्॥५॥


नैयायिकनिन्दा
परामृशन्तो लिङ्गानि व्यभिचारविचारकाः।
तार्किका यदि विद्वांसो विष्टैः किमपराध्यते॥१॥
गुरोर्गिरः पञ्चदिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयंच।
अमी समाघ्रातवितर्कवादाः समागताः कुक्कुटपादमिश्राः॥२॥

मीमांसप्रशंसा
भगवदनभ्युपगमनं दैवतचैतन्यनिह्नवश्चैषाम्।
कर्मश्रद्धावर्धकतत्प्राधान्यप्रदर्शनायैव॥१॥
आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे।
स्वामिनि जैमिनियोगिन्युपरज्यति हृदयमस्मदीयमिदम्॥२॥
शबरकुमारिलगुरवोमण्डनभवदेवपार्थसारथयः।
अन्येच विश्वमान्या जयन्ति संत्रयीशिरःसु श्रमशालिनो वा॥३॥


मीमांसकनिन्दा
ते मीमांसाशास्त्रलोकप्रसिद्धाः सर्वर्षीणां सेहिरे नैव सत्ताम्।
चैतन्यस्यापह्नवं देवतानां चक्रौर्विश्वं नश्चरं भन्यमानाः॥१॥
मीमांसकाः कतिचिदत्र मिलन्ति वेदप्रामाण्यसाधनकृतोऽपि न तेऽभिवन्द्याः।
उद्घोषितोऽप्युपनिषद्भिरशेषशेषी ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः॥२॥


वैद्यप्रशंसा
गुरोरधीताखिलवैद्यविद्यः पीयूषपाणिः कुशलः क्रियासु।
गतस्पृहो धैर्यधरः कृपालुः शुद्धोऽधिकारी मिषगीदृशः स्यात्॥१॥
रागादिरोगान्सततानुषक्तानशेषकाथप्रसृतानशेषान्।
औत्सुक्यमोहारतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै॥२॥
अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित्।
चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति॥३॥

कुवैद्यनिन्दा
वैद्यराज नमस्तुभ्यं यमराजसहोदर।
यमस्तु हरति प्राणान्वैद्यः प्राणान्धनानि च॥१॥
वैद्यराज नमस्तुभ्यं क्षपिताशेषमानव।
त्वयि विन्यस्तभारोऽयं कृतान्तः सुखमेधते॥२॥
चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः।
नाहं गतो न मे भ्राता कस्येदं हस्तलाघवम्॥३॥
कषायैरुपवासैश्च कृतामुल्लाघतां नृणाम्।
निजौषधकृतां वैद्यो निवेद्य हरते धनम्॥४॥
अज्ञातशास्त्रसद्भावाशस्त्रमात्रपरायणान्।
त्यजेद्दूराद्भिषक्पाशान्पाशान्वैवस्वतानिव॥५॥


गणकप्रशंसा
चतुरङ्गबलो राजा जगतीं वशमानयेत्।
अहं पञ्चाङ्गबलवानाकाशं वशमानये॥१॥
एकासनस्था जलवायुभक्षामुमुक्षवस्त्यक्तपरिग्रहाश्च।
पृच्छन्ति तेऽप्यम्बरचारिचारं दैवज्ञमन्ये किमुतार्थचित्ताः॥२॥
न दैवं न पित्र्यं च कर्मावसिद्ध्येन्न यत्रास्ति देशे ननु ज्योतिषज्ञः।
न तारा न चारा नवानां ग्रहाणां न तिथ्यादयो वा यतस्तत्र बुद्धाः॥३॥
दूतो न संचरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च संगमोऽस्ति।
व्योम्नि स्थितं रविशशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान्॥४॥
वृद्धिह्रासौ कुमुदसुहृदः पुष्पवन्तोपरागः शुक्रादीनामुदयविलयावित्यपी सर्वदृष्टाः।
आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भीपुलाकन्यायाज्ज्योतिर्नयगतिविदां निश्चलं मानभावम्॥५॥
भानोः शीतकरस्य वापि भुजगग्रासे पुरो निश्चिते तीर्थानामटनं जनस्य घटते तापत्रयोच्चाटनम्।
इष्टे प्रागवधारिते सति धृतेस्तुष्टश्चे लाभो भवेद्दृष्टे तु व्यसनेऽत्र तत्परिहृतिः कर्तुं जपाद्यैः क्षमा॥६॥



कुगणकनिन्दा
गणयति गगने गणकश्चन्द्रेण समागमं विशाखायाः ।
विविधभुजङ्गक्रीडासक्तां गृहिणीं न जानाति ॥१॥
गणिकागणकौ समानधर्मौ निजपञ्चाङ्गनिदर्शकावुभौ ।
जनमानसमोहकारिणौ तौ विधिना वित्तहरौ विनिर्मितौ ॥२॥
असुखमथ सुखं वा कर्मणां पक्तिवेलास्वहह नियतमेते भुञ्जते देहभाजः ।
तदिह पुरत एव प्राह मौहूर्तिकश्चेत्कथय फलममीषामन्ततः किं ततः स्यात् ॥३॥
विलिखति सदसद्वा जन्मपत्रं जनानां फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम् ।
न फलति यदि लग्नद्रष्टुरेवाह मोहं हरति धनमिहैवं हन्त दैवज्ञपाशः ॥४॥
प्रमोदे खेदे वाप्युपनमति पुंसां विधिवशान्मयैवं प्रागेवाभिहितमिति मिथ्या कथयति ।
जनानिष्टानिष्टाकलनपरिहारैकनिरतानसौ मेषादीनां परिगणनयैव भ्रमयति ॥५॥
ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः कल्लोलैर्निबिडे कणान्कतिपयाँल्लब्ध्वा कृतार्था इव ।
दीर्घायुःसुतसम्पदादिकथनैर्दैवज्ञपाशा इमे गेहं गेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते ॥६॥


पौराणिकनिन्दा
पौराणिकानां व्यभिचारदोषो नाशङ्कनीयाः कितिभिः कदाचित् ।
पुराणकर्ता व्यभिचारजातस्तस्यापि पुत्रो व्यभिचारजातः ॥१॥


पुरोहितनिन्दा
पुरीचस्य च रोषस्य हिंसायास्तस्करस्य च ।
आद्याक्षराणि सङ्गृह्य वेधाश्चको पुरोहितम् ॥१॥





कायस्थनिन्दा
काकाल्लौल्यं यमात्कौर्य स्थपतेर्दृढघातिताम् ।
आद्याक्षराणि सङ्गृह्य कायस्थः केन निर्मितः ॥१॥
कायस्थेनोदरस्थेन मातुरामिषशङ्कया ।
अन्त्राणि यन्न भुक्तानि तत्र हेतुरदन्तता ॥२॥
विना मद्यं विना मांसं परस्वहरणं विना ।
विना परापवादेन दिविरो दिवि रोदिति ॥३॥
कलमाग्रनिर्गतमषीबिन्दुव्याजेन साञ्ज्नाश्रुकणा ।
कायस्थलुठ्यमाना रोदिति खिन्नेव राजश्रीः ॥४॥


सज्जनप्रशंसा
अहो किमपि चित्राणि चरित्राणि महात्मनाम् ।
लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्त्यपि ॥१॥
नाल्पीयसि निबध्नाति पदमुन्नतचेतसः ।
येषां भुवनलाभेऽपि निःसीमानो मनोरथाः ॥२॥
अञ्जलिस्थानि पुष्पाणि वास्यन्ति करद्वयम् ।
अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥३॥
वज्रादपि कठोराणि मृदूनि कुसुमादपि ।
लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥४॥
गवादीनां पयोऽन्येद्युः सद्यो वा जायते दधि ।
क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥५॥
गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च हन्ति सन्तो महाशयाः ॥६॥
छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः ।
मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥७॥
सम्पदो महतामेव महतामेव चापदः ।
वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥८॥
अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् ।
और्वदहन्तमेवाग्निं सन्तर्पयति सागरः ॥९॥
महतां प्रार्थनेनैव विपत्तिरपि शोभते ।
दन्तभङ्गो हि नागानां श्लाघ्यो गिरिविदारणे ॥१०॥



दुर्जननिन्दा
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति॥१॥
न विना परवादेन रमते दुर्जनो जनः।
काकः सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति॥२॥
विशिखव्यालयोरन्त्यवर्णाभ्यां यो विनिर्मितः।
परस्य हरति प्राणान्नैतच्चित्रं कुलोचितम्॥३॥
विषमा मलिनात्मानो द्विजिह्वा जिह्वगा इव।
जगत्प्राणहरा नित्यं कस्य नोद्वेजकाः खलाः॥४॥
दोर्जनः परिहर्तव्यो विद्ययालंकृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयंकरः॥५॥
खलानां कण्टकानां च द्विविधैव प्रतिक्रिया।
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम्॥६॥
 

लक्ष्मीस्वभावः
या स्वसद्मनि पद्मेऽपि संघ्यावधि विजृम्भते।
इन्दिरा मन्दिरेऽन्येषां कथं तिष्ठति सा चिरम्॥१॥
गुणिनं जनमालोक्य निजबन्धनशङ्कया।
राजंल्लक्ष्मीः कुरङ्गीव दूरं दूरं पलायते॥२॥
शूरं त्यजामि वैधव्यादुदारं लज्जया पुनः।
सापत्न्यात्पण्डितमपि तस्मात्कृपणमाश्रये॥३॥
गोभिः क्रीडितवान्कृष्ण इति गोसमबुद्धिभिः।
क्रीडत्यद्यापि सा लक्ष्मीरहो देवी पतिव्रता॥४॥
अत्यार्यमतिदातारमतिशूरमतिव्रतम्।
पज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति॥५॥


धनप्रशंसा
अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते।
नामसाम्यादहो चित्रं धत्तूरोऽपि मदप्रदः॥१॥
न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः॥२॥
धनमर्जय काकुत्स्थ धनमूलमिदं जगत्।
अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च॥३॥
ब्रह्मन्घोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम्।
शशिना तुल्यवंशोऽपि निर्धनः परिभूयते॥४॥
कुत आगत्य घटते विघट्य क्व नु याति च।
न लक्षते गतिश्चित्रा धनस्य च धनस्य च ॥५॥


धननिन्दा
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते।
जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः॥१॥
लक्षीवन्तो न जानन्ति प्रायेण परवेदनाम्।
शेषे धराभरक्लान्ते शेते नारायणः सुखम्॥२॥
वरं हालाहलं पीतं सद्यः प्राणहरं विषम्।
न तु दृष्टं धनान्धस्य भ्रूभङ्गकुटिलं मुखम्॥३॥
भक्ते द्वेषो जडे प्रीतिररुचिर्गुरुलङ्घनम्।
मुखे च कटुता नित्यं धनिनां ज्वरिणामिव॥४॥
आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव॥५॥



धनिप्रशंसा
धनवान्बलवान्ल्लोके सर्वः सर्वत्र सर्वदा।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते॥१॥
वयोवृद्धास्तपोवृद्धा ज्ञानवृद्धाश्च ये परे।
ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किङ्कराः॥२॥
न सा विद्या न तच्छीलं न तद्दानं न सा कला।
अर्थार्थिभिर्न तच्छौर्यं धनिनां यन्न कीर्त्यते॥३॥
पतन्ति खड्गधारासु विशन्ति मकरालयम्।
किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो जनाः॥४॥
एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः॥५॥


दरिद्रनिन्दा
उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः।
बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव॥१॥
हे दारिद्य्र नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन॥२॥
इह लोकेऽपि धनिनां परोऽपि स्वजनायते।
स्वजनोऽपि दरिद्राणां तत्क्षणाद्दुर्जनायते॥३॥
परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम्।
विधिर्ददाति निपुणः कन्यामिव दरिद्रताम्॥४॥
येनैवाम्बरखण्डेन संवीतो निशि चन्द्रमाः।
तेनैव च दिवाभानुरहो दौर्गत्यमेतयोः॥५॥


दानप्रशंसा
अनुकूले विधौ देयं यतः पूरयिता हरिः।
प्रतिकूले विधौ देयं यतः सर्वे हरिष्यति॥१॥
यद्ददाति यदश्नाति तदेव धनिनो धनम्।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि॥२॥
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषमन्यस्य रक्षसि॥३॥
त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः।
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः॥४॥
भवन्ति नरकाः पापात्पापं दारिद्र्यसंभवम्।
दारिद्र्यमप्रदानेन तस्माद्दानपरो भवेत्॥५॥

लोभनिन्दा
लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोम एव च।
द्वेषक्रोधादिजनको लोभः पापस्य कारणम्॥१॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्॥२॥
लोभात्क्रोधः प्रभवति क्रोधाद्द्रोहः प्रवर्तते।
द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः॥३॥
मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम्।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम्॥४॥
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः॥५॥


उदारप्रशंसा
शतेषु जायते शूरः सहस्रेषु च पण्डितः।
वक्ता दशसहस्रेषु दाता भवति वा न वा॥१॥
अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति।
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुच्चति॥२॥
रक्षन्ति कृपणाः पाणौ द्रव्यं क्रव्यमिवात्मनः।
तदेव सन्तः सततमुत्सृजन्ति यथा मलम्॥३॥
याचितो यः प्रहृष्येत दत्त्वा च प्रीतिमान्भवेत्।
तं दृष्ट्वाप्यथवा श्रृत्वा नरः स्वर्गमवाप्नुयात्॥४॥
आकारमात्रविज्ञानसंपादितमनोरथाः।
ते धन्या ये न शृण्वन्ति दीनाः प्रणयिनां गिरः॥५॥


कृपणनिन्दा
कृपणेन समो दाता न भूतो न भविष्यति।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति॥१॥
यदर्ज्यते परिक्लेशैरर्जितं यन्न भुज्यते।
विभज्यते यदन्तेऽन्यैः कस्यचिन्मास्तु तद्धनम्॥२॥
यत्करोत्यरतिं क्लेशं तृष्णां मोहं प्रजागरम्।
न तद्धनं कदर्याणां हृदये व्याधिरेव सः॥३॥
मृत्युः शरीरगोप्तारं धनरक्षं वसुन्धरा।
दुश्चारिणी च हसति स्वपतिं पुत्रवत्सलम्॥४॥
त्यागभोगविहीनेन धनेन धनिनो यदि।
भवामः किं न तेनैव धनेन धनिनो वयम्॥५॥


याचकनिन्दा
वेपथुर्मलिनं वक्रं दीना वाग्गदग्दः स्वरः।
मरणे यानि चिन्हानि तानि चिन्हानि याचके॥१॥
विद्यावतः कुलीनस्य धनं याचितुमिच्छतः।
कण्ठे पारावतस्येव वाक्करोति गतागतम्॥२॥
दक्षिणाशाप्रवृत्तस्य प्रसारितकरस्य च।
तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा॥३॥
साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि सर्वदा।
शुष्कोऽपि हि नदीमार्गः खन्यते सलिलार्थिभिः॥४॥
तृणादपि लघुस्तूलस्तूलादपि च याचकः।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति॥५॥



परोपकारप्रशंसा
परोपकारः कर्तव्यः प्राणैरपि धनैरपि।
परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि॥१॥
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
तन्निमित्तो वरं त्यागो विनाशे नियते सति॥२॥
रविश्चन्द्रो धना वृक्षा नदी गावश्च सज्जनाः।
एते परोपकाराय युगे दैवेन निर्मिताः॥३॥
तृणं चाहं वरं मन्ये नरादनुपकारिणः।
घासो भूत्वा पशून्पाति भीरून्पाति रणाङ्गणे॥४॥
परोपकृतिकैवल्ये तोलयित्वा जनार्दनः।
गुर्वीमुपकृतिं मत्वा ह्यवतारान्दशाग्रहीत्॥५॥


कृतघ्ननिन्दा
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।
निष्कृतिर्विहिता लोके कृतघ्ने नास्ति निष्कृतिः॥१॥
उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम्।
तं जनमसत्यसंधं भगवति वसुधे कथं वहसि॥२॥
व्योमनि शम्बाकुरुते चित्रं निर्माति यत्नतः सलिले।
स्नपयति पवनं सलिलैर्यस्तु खले चरति सत्कारम्॥३॥
शोकं मा कुरु कुक्कुर सत्वेष्वहमधम इति मुधा साधो।
कष्टादपि कष्टतरं दृष्ट्वा श्वानं कृतघ्ननामानम्॥४॥


संतोषप्रशंसा
संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम्।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्॥१॥
अकृत्वा परसंतापमगत्वा खलनम्रताम्।
अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्बहु॥२॥
आगमिष्यन्ति ते भावा ये भावा मयि भाविताः।
अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः॥३॥
यो मे गर्भगतस्यापि वृत्तिं कल्पितवान्स्वयम्।
शेषवृत्तिविधाने च स किं सुप्तोऽथावा मृतः॥४॥
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम्।
सुखान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते॥५॥



तृष्णानिन्दा
तृष्णे देवि नमस्तुभ्यं धैर्यविप्लवकारिणि।
विष्णुस्त्रैलोक्यनाथोऽपि यत्त्वया वामनीकृतः॥१॥
तृष्णे कॄष्णेऽपि ते शक्तिर्दृष्टा मर्त्येषु का कथा।
त्रैलोक्यव्यापि यद्रूपं तद्रूपं वामनीकृतम्॥२॥
तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्॥३॥
वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः।
गात्राणि शिथिलायन्ते तॄष्णैका तरुणायते॥४॥
नास्त्यन्या तृष्णया तुल्या कापि स्त्री सुभगा क्वचित्।
या प्राणानपि मुष्णन्ति भवत्येवाधिकं प्रिया।।५॥


धीरप्रशंसा
स एव धन्यो विपदि स्वरुपं यो न मुञ्चति।
त्यजत्यर्ककरैस्तप्तं हिमं देहं न शीतताम्॥१॥
चलन्ति गिरयः कामं युगान्तपवनाहताः।
कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः॥२॥
कृतं पुरुषशब्देन जातिमात्रावलम्बिना।
येऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः॥३॥
ग्रसमानमिवौजांसि सहसा गौरवेरितम्।
नाम यस्याभिनन्दन्ति द्विषोऽपि स मतः पुमान्॥४॥
सह परिजनेन विलसति धीरो गहनानि तरति पुनरेकः।
विषमेकेन निपीतं त्रिपुरजिता सह सुरैरमृतम्॥५॥


वीरप्रशंसा
एकेनापि हि शूरेण पदाक्रान्तं महीतलम्।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा॥१॥
बहवः पङ्गवोऽपीह नराः शास्त्राण्यधीयते।
विरला रिपुखङ्गाग्रधारापातसहिष्णवः॥२॥
अनन्तोद्भूतभूतौघसंकुले भूतलेऽखिले।
शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः॥३॥
महिम्नामन्तरं पश्य शेषाहेः साब्धिभूधरा।
फणासहस्रस्रग्दाम्नि भ्रमरीव विभाति भूः॥४॥
स्पृहयति भुजयोरन्तरमायतकरवालकररुहविदीर्णम्।
विजयश्रीर्वीराणां व्युत्पन्नप्रौढवनितेव॥५॥
 


तेजस्विप्रशंसा
बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम्।
तेजसा सह जातानां वयः कुत्रोपयुज्यते॥१॥
एकः स एव तेजस्वी सैंहिकेयः सुरद्विषाम्।
शिरोमात्रावशेषेण जीयन्ते येन शत्रवः॥२॥
मौनी पादप्रहारेऽपि न क्षमीर्नीच एव सः।
आकृष्टशस्त्रो मित्रेऽपि न तेजस्वी खलो हि सः॥३॥
तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्।
हिमांशुमाशुग्रसते तन्म्रदिम्नः स्फुटं फलम्॥४॥
स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि।
निदर्शनमसाराणां लघुर्बहुतृणं नरः॥५॥



मनस्विप्रशंसा
कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः।
इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्कियाम्॥१॥
ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी।
अङ्गुलीदर्शनाद्येन विलीयन्ते मनस्विनः॥२॥
ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः।
शफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते॥३॥
कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः।
मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा॥४॥
पादाहतं सदुत्थायमूर्धानमधिरोहति।
स्वस्थादेवापमानेऽपे देहिनस्तद्वरं रजः॥५॥


अपौरुषत्वनिन्दा
माजीववन्यः परावज्ञादुःखदग्धोऽपि जीवति।
तस्याजननिरेवास्तु जननीक्लेशकारिणः॥१॥
असंपादयतः कंचिदर्थं जातिक्रियागुणैः।
यदृच्छाशब्दवत्पुंसः संज्ञायै जन्मकेवलम्॥२॥



गुणप्रशंसा
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम्।
केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः॥१॥
गुणवज्जनसंपर्काद्याति स्वल्पोऽपि गौरवम्।
पुष्पाणामनुषङ्गेण सूत्रं शिरसि धार्यते॥२॥
कलावतः सैव कला ययाधः क्रियते भवः।
बह्वीभिश्च कलाभिः किं याभिरङ्कः प्रदर्श्यते॥३॥
न पुत्रत्वेन पूज्यन्ते गुणैरासाद्यते पदम्।
रवेर्व्यापारमादत्ते प्रदीपो न पुनः शनिः॥४॥
गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः।
वासुदेवं नमस्यन्ति वसुदेवं न मानवाः॥५॥


उद्यमप्रशंसा
उद्योगः खलु कर्तव्यः फलं मार्जारवद्भवेत्।
जन्मप्रभृतिगौर्नास्ति पयः पिबति नित्यशः॥१॥
उद्यमं साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्॥२॥
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।
नहि सुप्तस्य सिहंस्य प्रविशन्ति मुखे मृगाः॥३॥
न दैवमिति संचिन्त्य त्यजेदुद्योगमात्मनः।
अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति॥४॥
विहाय पौरुषं यो हि दैवमेवावलम्बते।
प्रासादसिंहवत्तस्य मूर्ध्नि तिष्ठन्ति वायसाः॥५॥



संहतिप्रशंसा
संहतिः श्रेयसी राजन्विगुणेष्वपि बन्धुषु।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः॥१॥
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः॥२॥
बहूनामल्पसाराणां समवायो दुरत्ययः।
तृणैर्विधीयते रज्जुर्बध्यन्ते तेन दन्तिनः॥३॥


क्षमाप्रशंसा
क्षमाशस्त्रं करे यस्य दुर्जनः किं करिष्यति।
अतृणे पतितो वन्हिः स्वयमेवोपशाम्यति॥१॥
नरस्याभरणं रूपं रूपस्याभरणं गुणः।
गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा॥२॥
क्षमा बलमशक्तानां शक्तानां भूषणं क्षमा।
क्षमा वशीकृतिर्लोके क्षमया किं न सिद्ध्यति॥३॥



विनयप्रशंसा
तिष्ठतां तपसि पुण्यमासृजन्संपदोऽर्नेगुणयन्सुखैषिणाम्।
योगिनां परिणमन्विमुक्तये केन नास्तु विनयः सतां प्रियः॥१॥


सत्यप्रशंसा
सूनृतं सर्वशास्त्रार्थनिश्चितज्ञानशोभितम्।
भूषणं सर्ववचसां लज्जेव कुलयोपिताम्॥१॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥२॥
गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः।
अलुब्धैर्दानशूरैश्च सप्तभिर्धार्यते मही॥३॥


असत्यनिन्दा
नासत्यवादिनः सख्यं न पुण्यं न यशो भुवि।
दृश्यते नापि कल्याणं कालकूटमिवाश्नतः॥१॥
असत्यमप्रत्ययमूलकारणं कुवासनासद्मसमृद्धिवारणम्।
विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम्॥२॥
यशो यस्माद्भस्मीभवति वनवह्नेरिव वनं निदानं दुःखानां यदवनिरूहाणामिव जलम्।
न यत्र स्याच्छायातप इव तपः संयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान्॥३॥
जिह्वैकैव सतामुभे फणवतां स्रष्टुश्चतस्रश्च तास्ताः सप्तैव विभावसोर्नियमिताः शट्कार्तिकेयस्य च।
पौलस्त्यस्य दशाभवन्फणिपतेर्जिह्वासहस्रद्वयं जिह्वालक्षशतैककोटिनियमो नो दुर्जनानां मुखे॥४॥


आत्मश्लाघानिन्दा
परैः प्रोक्ता गुणा यस्य निर्गुणोऽपि गुणी भवेत्।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः॥१॥
न सुखं न च सौभाग्यं स्वयं स्वगुणवर्णने।
यथैव च परंध्रीणां स्वहस्तकुचमर्दने॥२॥
स्वयं तथा न कर्तव्यं स्वगुणाख्यापनं पुनः।
स्वगुणाख्यापनं युक्त्या परद्वारा प्रयोजयेत्॥३॥
न सौख्यसौभाग्यकरा गुणा नृणां स्वयं गृहीताः सदृशां कुचा इव।
परैर्गृहीता द्वितयं वितन्वते न तेन गृह्णन्ति निजं गणुं बुधाः॥४॥
निजगुणगरिमा सुखाकरः स्यात्स्वयमनुवर्णयतां सतां न तावत्।
नुजकरकमलेन कामिनीनां कुचकलशाकलनेन को विनोदः॥५॥



स्वभाववर्णनम्
सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः।
अतीत्य हि गुणान्सर्वान्स्वभावो मूर्ध्नि वर्तते॥१॥
किं कुलेनोपदिष्टेन शीलमेवात्र कारणम्।
भवन्ति सुतरां स्फीताः सुक्षेत्रे कण्टकिद्रुमाः॥२॥
यः स्वभावो हि यस्यास्ते स नित्यं दुरतिक्रमः।
श्वा यदि क्रियते राजा तत्किं नाश्नात्युपानहम्॥३॥
परोपदेशकुशला दृश्यन्ते बहवो जनाः।
स्वभावमतिवर्तन्तः सहस्रेष्वपि दुर्लभाः॥४॥
किं कुलेन विशालेन शीलमेवात्र कारणम्।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु॥५॥


वाग्वर्णनम्
तास्तु वाचः सभायोग्या याश्चित्ताकर्षणक्षमाः।
स्वेषां परेषां विदुषां द्विषामविदुषामपि॥१॥
गानाब्धेस्तु परं पारं नोपेयाय सरस्वती।
अतो निमज्जनभयात्तुम्बीं वहति वक्षसि॥२॥
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः॥३॥
वर्णैः कतिपयैरेव ग्रथितस्य स्वरैरिव।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता॥४॥
बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते।
अनुज्झितार्थसंबन्धः प्रबन्धो दुरुदाहरः॥५॥


वाग्मिप्रशंसा
विरोधिवचसो मूकान्वागीशानपि कुर्वते।
जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः॥१॥
तीक्ष्णा नारुंतुदा बुद्धिः कर्म शान्तं प्रतापवत्।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः॥२॥
प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम्।
साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम्॥३॥
न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे।
अप्रकम्प्यतयान्येषामाम्नायवचनोपमम्॥४॥
अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम्।
औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव॥५॥


मौनगुणाः
आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्॥१॥
रूपवांश्चापि मूर्खोऽपि गत्वा च विपुलां सभाम्।
संरक्षेच्च स्विकां जिह्वां भार्यां दुश्चारिणीं यथा।।२॥
स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥३॥
कोलाहले काककुलस्य जाते विराजते कोकिलकूजितं किम्।
परस्परं संवदतां खलानां मौनं विधेयं सततं सुधीभिः॥४॥


स्थानमाहात्म्यम्
नक्रः स्वस्थानमासाद्य बध्यन्ते शुकसारिकाः।
स एव प्रच्युतेः स्थानाच्छुनापि परिभूयते॥१॥
किञ्चिदाश्रयसंयोगाद्धत्ते शोभामसाध्वपि।
कान्ताविलोचने न्यस्तं मलीमसमिवाञ्जनम्॥२॥
कुस्थानस्य प्रवेशेन गुणवानपि पीड्यते।
वैश्वानरोऽपि लोहस्थः कारुकैरभिहन्यते॥३॥
पदस्थितस्य पद्मस्य मित्रे वरूणभास्करौ।
पदच्युतस्य तस्यैव क्लेशदाहकरावुभौ॥४॥
राजा कुलवधूर्विप्रा मन्त्रिणश्च पयोधराः।
स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नरा नखाः॥५॥


सत्सङ्गतिप्रशंसा
महानुभावसंसर्गः कस्य नोन्नतिकारकः।
रथ्याम्बु जाह्नवीसङ्गात्रिदशैरपि वन्द्यते॥१॥
महाजनस्य संसर्गः कस्य नोन्नतिकारकाः।
पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम्॥२॥
महानुभावसंसर्गः कस्य नोन्नतिकारकः।
हरिहस्तगतः शङ्खः पवित्रः प्रथितो भुवि॥३॥
मलयाचलगन्धेन त्विन्धनं चन्दनायते।
तथा सज्जनसङ्गेन दुर्जनः सज्जनायते॥४॥
वीणावंशाश्रया तुम्बी चुम्बत्युच्चैः कुचौ स्त्रियः।
पिबत्यनार्यसंयोगाद्रक्तं नक्तंचरी यथा॥५॥

असत्संगतिनिन्दा
अहो दुर्जनसंसर्गान्मानहानिः पदे पदे।
पावको लोहसङ्गेन मुद्गरैरभिहन्यते॥१॥
अन्तर्मलिनसंसर्गाच्छुतवानपि दुष्यति।
यच्चक्षुः सन्निकर्षेण कर्णोऽभूत्कुटिलाश्रयः॥२॥
दुष्टतां दुष्टसंर्गाददुष्टमपि गच्छति।
सुराबिन्दुनिपातेन पञ्चगव्यघटी यथा॥3॥
अणुरप्यसतां सङ्गः सद्गुणं हन्ति विस्तृतम्।
गुणरूपान्तरं याति तक्रयोगाद्यथा पयः॥४॥
दुर्वृत्तः क्रियते धूर्तैः श्रीमानात्मविवृद्धये।
किं नाम खलसंसर्गः कुरुते नाश्रयाशवत्॥५॥


स्नेहवचनम्
सखि साहजिकं प्रेम दूरादपि विराजते।
चकोरीनयनद्वन्द्वमानन्दयति चन्द्रमाः॥१॥
क्वेन्दोर्मण्डलमम्बुधिः क्व च रविः पद्माकरः क्व स्थितः काभ्राः सन्ति मयूरपङ्क्तिरमला क्वालिः क्व वा मालती।
हंसानां च कुलं क्व दूरविषये क्वास्ते सरो मानसं यो यस्याभिमतः स तस्य निकटे दूरेऽपि सन्वल्लभः॥२॥

सुमित्रप्रशंसा
कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी।
अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते॥१॥
यस्य मित्रेण संभाषा यस्य मित्रेण संस्थितिः।
मित्रेण सह यो भुङ्क्ते ततो नास्तीह पुण्यवान्॥२॥
शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः॥३॥
अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः।
प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः॥४॥
उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे।
राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः॥५॥


कुमित्रनिन्दा
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम्॥१॥
रहस्यभेदो याच्ञा च नैष्ठुर्यं चलचित्तता।
क्रोधो निःसत्यता द्यूतमेतन्मित्रस्य दूषणम्॥२॥


संसारः
संसार तव निःसार पदवी न दवीयसी।
अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः॥१॥
संसारविषवृक्षस्य द्वे फले ह्यमृतोपमे।
काव्यामृतरसास्वाद आलापः सज्जनैः सह॥२॥
दुःखाङ्गारकतीव्रः संसारोऽयं महानसो गहनः।
इह विषयामृतलालस्य मानसमार्जार मा निपत॥३॥
अयमविचारितचारुतया संसारो भाति रमणीयः।
अत्र पुनः परमार्थदृशा न किमपि सारमणीयः॥४॥
क्वचिद्विद्वद्गोष्ठी क्वचिदपि सुरामत्तकलहः क्वचिद्वीणावादः क्वचिदपिच हाहेति रुदितम्।
क्वचिद्रम्या रामा क्वचिदपि जराजर्जरतनुर्नजाने संसारः किममृतमयः किं विषमयः॥५॥


गृहस्थाश्रमप्रशंसा
न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः।
शास्त्रवित्सत्यवादी च गृहस्थोऽपि विमुच्यते॥१॥
यदि रामा यदि च रमा तनयो विनयधीगुणोपेतः।
तनये तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम्॥२॥
सविप्रपादोदककर्दमानि सवेदशास्त्रध्वनिगर्जितानि।
स्वाहास्वधाकारनिरन्तराणि स्वानन्दतुल्यानि गृहाणि तानि॥३॥
सानन्दं सदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः।
आतिथ्यं शिवपूजनं प्रतिदिनं मृष्टान्नपानं गृहे साधोः सङ्गमुपासते हि सततं धन्यो गृहस्थाश्रमः॥४॥
मानुष्यं वरवंशजन्म विभवो दीर्घायुरारोग्यता सन्मित्रं सुसुतः सती प्रियतमा भक्तिश्च नारायणे।
विद्वत्त्वं सुजनत्वमिन्द्रियजयः सत्पात्रदाने रतिस्ते पुण्येन विना त्रयोदशगुणाः संसारिणां दुर्लभाः॥५॥



गृहस्थाश्रमदूषणम्
यत्र नास्ति दधिमन्थनघोषो यत्र नो लघुलघूनि शिशूनि।
यत्र नास्ति गुरुगौरवपूजा तानि किं वत गृहाणि वनानि॥१॥
न विप्रपादोदकपङ्किलानि न वेदशास्त्रध्वनिगर्जितानि।
स्वाहास्वधाकारविवर्जितानि श्मशानतुल्यानि गृहाणि तानि॥२॥
क्रोशन्तः शिशवः सवारि सदनं पङ्कावृतं चाङ्गणं शय्या दंशवती च रूक्षमशनं धूमेन पूर्णं गृहम्।
भार्या निष्ठुरभाषिणी प्रभुरपि क्रोधेन पूर्णः सदास्नानं शीतलवारिणा हि सततं धिग्धिग्गृहस्थाश्रमम्॥३॥
तावद्विद्यानवद्या गुणगणमहिमा रूपसंपत्तिशौर्यं स्वस्थाने सर्वशोभा परगुणकथने वाक्पटुस्तावदेव।
यावत्पाकाकुलाभिः स्वगृहयुवतिभिः प्रेषितापत्यवक्राद्धे बाबा नास्ति तैलं न च लवणमपीत्यादिवाचां प्रचारः॥४॥

   
पुत्रप्रशंसा
इदं तत्स्नेहसर्वस्वं सममाढ्यदरिद्रयोः।
अचन्दनमनौशीरं हृदयस्यानुलेपनम्॥१॥
गृहे जानुचरः केल्यां मुग्धस्मितमुखाम्बुजः।
पुत्रः पुण्यवतामेव पात्रीभवति नेत्रयोः॥२॥
स्वगर्भशुक्तिनिर्भिन्नं सुवृत्तं सुतमौक्तिकम्।
वंशश्रीतिलकीभूतं मन्दभाग्यस्य दुर्लभम्॥३॥
वर्धते न चिरं लोके वंशलक्ष्मीरसंततिः।
स्वल्पावशेषितस्नेहवर्तिमालेव दीपिका॥४॥
अन्तःकरणतत्वस्य दंपत्योः स्नेहसंश्रयात्।
आनन्दग्रन्थिरेकोऽयमपत्यमिति बध्यते॥५॥


कन्यानिन्दा
जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महान्वितर्कः।
दत्ता सुखं यास्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम्॥१॥


सत्पुत्रप्रशंसा
एकोऽपि गुणवान्पुत्रो निर्गुणैः किं शतैरपि।
एकश्चन्द्रो जगच्चक्षुर्नक्षत्रैः किं प्रयोजनम्॥१॥
एकेन हि सुवृक्षेण पुष्पितेन सुगन्धिना।
वासितं तद्वनं सर्वं सुपुत्रेण कुलं यथा।।२॥
प्रज्ञया वा विसारिण्या यो बलेन धनेन वा।
धुरं वहति गोत्रस्य जननी तेन पुत्रिणी॥३॥
एकेनापि सुपुत्रेण विद्ययुक्तेन भासते।
कुलं पुरुषसिंहेन चन्द्रेणेव हि शर्वरी॥४॥
को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः।
वरमेकः कुलालम्बी यत्र विश्रूयते पिता॥५॥


कुपुत्रनिन्दा
किं तेन जातु जातेन मातृयौवनहारिणा।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा॥१॥
किं तया क्रियते धेन्वा या न दोग्ध्री न गर्भिणी।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः॥२॥
एकेन शुष्कवृक्षेण दह्यमानेन वन्हिना।
दह्यते तद्वनं सर्वं दुष्पुत्रेण कुलं तथा॥३॥
कोटरान्तः स्थितो वह्निस्तरुमेकं दहेत्खलु।
कुपुत्रस्तु कुले जातः स्वकुलं नाशयत्यहो॥४॥
अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः।
सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे॥५॥


दैवाख्यानम्
देवमुल्लङ्घ्य यत्कार्यं क्रियते फलवन्न तत्।
सरोम्भश्चातकेनात्तं गलरन्ध्रेण गच्छति॥१॥
भाग्यवन्तं प्रसूयेथा मा शूरं मा च पण्डितम्।
शूराश्च कृतविद्याश्च वने सीदन्ति पाण्डवाः॥२॥
न केवलं मनुष्येषु दैवं देवेष्वपि प्रभु।
सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः॥३॥
सच्छिद्रो मध्यकुटिलः कर्णः स्वर्णस्य भाजनम्।
धिग्दैवं निर्मलं चक्षुः पात्रं कज्जलभस्मनः॥४॥
भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसावपि।
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते॥५॥


जरावर्णनम्
अलङ्करोति हि जरा राजामात्यभिषग्यतीन्।
विडम्बयति पण्यस्त्रीमल्लगायनसेवकान्॥१॥
क्षणात्प्रबोधमायाति लङ्घ्यते तमसा पुनः।
निर्वास्यतः प्रदीपस्य शिखेव जरतो मतिः॥२॥
शशिनीव हिमार्तानां घर्मार्तानां रवाविव।
मनो न रमते स्त्रीणां जराजीर्णेन्द्रिये पतौ॥३॥
मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम्।
तद्रोषादिव निर्यातावदनाद्रदनावलिः॥४॥
वृद्धत्वानलदग्धस्य सारयौवनवस्तुनः।
दृश्यते देहगेहेषु भस्मैव पलितच्छलात्॥५॥
                                                                                                                                                                                         
      
क्षुधावर्णनम्
नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः।
नास्त्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः॥१॥
शय्या वस्त्रं चन्दनं चारु हास्यं वीणा वाणी सुन्दरी या च नारी।
न भ्राजन्ते क्षुत्पिपासातुराणां सर्वारम्भास्तण्डुलप्रस्थमूलाः॥२॥



भिक्षुकः
प्रतिदिनमयत्नसुलभे भिक्षुकजननि साधुसङ्घकल्पलते।
नृपनमननरकतारिणि भगवति भिक्षे नमुस्तुभ्यम्॥१॥
अगस्तितुल्याश्च घृताब्धिशोषणे दम्भोलितुल्या वटिकाद्रिभेदने।
शाकावलीकाननवह्निरूपास्त एव भट्टा इतरे भटाश्च॥२॥
अग्य्रो भुक्तिमतां प्रयोगसमये मन्त्रेषु पृष्ठं गतः पाकागारगतस्तु पाचकमनस्तोषाय वाचस्पतिः।
उच्चायां निरतो रतोऽर्भकगणे पिण्डेषु दत्तादरो नानाश्राद्धगणैकचालितमना भट्टोत्तमो राजते॥३॥
उच्चैरध्ययनं पुरातनकथा स्त्रीभिः सहालापनं तासामर्भकलालनं पतिनुतिस्तत्पाकमिथ्यास्तुतिः।
आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया होरागारुडमन्त्रतन्त्रकविधिर्भिक्षोर्गुणा द्वादश॥४॥
प्रातः क्षालितलोचनाः करतले चञ्चत्पवित्राङ्कुरास्तत्तत्स्थाननिवेशितोर्ध्वतिलकाश्चैलान्तबद्धाक्षताः।
को जातश्च मृतोऽथवा मृततिथिः कस्यालये वर्तते चेत्थं हर्षशतैर्युताः प्रतिदिनं धावन्त्याहो भिक्षुकाः॥५॥

परगृहवासः
शिरसा धार्यमाणोऽपि सोमः सौम्येन शम्भुना।
तथापि कृशतां धत्ते कष्टः खलु पराश्रयः॥१॥
विना कार्येण ये मूढा गच्छन्ति परमन्दिरम्।
अवश्यं लघुतां यान्ति कृष्णपक्षे यथा शशी॥२॥
कष्टं खलु मूर्खत्वं कष्टं खलु यौवनेषु दारिद्य्रम्।
कष्टादपि कष्टतरं परगृहवासः परान्नं च॥३॥
उडुगणपरिवारो नायकोऽप्योषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः।
भवति विगतरश्मिर्मण्डलं प्राप्यभानोः परसदननिविष्टः को लघुत्वं न याति॥४॥


उदरपूरणदूषणम्
अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः।
वानरीमिव वाग्देवीं नर्तयन्ति गृहे गृहे॥१॥
किमकारि न कार्पण्यं कस्यालङ्घि न देहली।
अस्य पापोदरस्यार्थे किमनाटि न नाटकम्॥२॥
एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः।
यः सकललघिमकारणमुदरं न बिभर्ति दु पूरम्॥३॥
कंधरां समपहाय कं धरां प्राप्यसंयति जहास कस्यचित्।
मां किलानमयतः स्वपूर्तये दुर्भरात्किमुदराद्वियोगतः॥४॥
अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य।
उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः॥५॥


सेवकनिन्दा
स्वाभिप्रायपरोक्षस्य परचित्तानुवर्तिनः।
स्वयं विक्रीतदेहस्य सेवकस्य कुतः सुखम्॥१॥
चलेषु स्वामिचित्तेषु सुलभे पिशुने जने।
यदि जीवन्त्यहो चित्रं क्षणमप्युपजीवनः॥२॥
सेवा श्ववृत्तिर्यैरुक्ता न तैः सम्यगुदाहृतम्।
स्वच्छन्दचारी कुत्र श्वा विक्रीतासुः क्व सेवकः॥३॥
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम्।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम्॥४॥
वरं वनं वरं भैक्ष्यं वरं भारोपजीवनम्।
पुंसां विवेकहीनानां सेवया न धनार्जनम्॥५॥


जीवितसाफल्यम्
यस्य जीवन्ति धर्मेण पुत्रा मित्राणि बान्धवाः।
सफलं जीवितं तस्य नात्मार्थे को हि जीवति॥१॥
यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा।
अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति॥२॥
वाणी रसवती यस्य भार्या पुत्रवती सती।
लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम्॥३॥
स जीवति यशो यस्य कीर्तिर्यस्य स जीवति।
अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः॥४॥
चलं वित्तं चलं चित्तं चले जीवितयौवने।
चलाचलमिदं सर्वं कीर्तिर्यस्य स जीवति॥५॥


ऋणम्
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते।
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम्॥१॥
पापं कर्तृमृणं कर्तुं मन्यन्ते मानवाः सुखम्।
परिणामोऽतिगहनो महतामपि नाशकृत्॥२॥
लोकद्वयप्रतिभयैकनिदानमेतद्विक्प्राणिनामृणमहो परिणामघोरम्।
एकः स एव हि पुमान्परमस्ति लोके क्रुद्धस्य येन धनिकस्य मुखं न दृष्टम्॥३॥



प्रवासः
यो न संचरते देशान्यो न सेवेत पण्डितान्।
तस्य संकुचिता बुद्धिर्घुतबिन्दुरिवाम्भसि॥१॥
यस्तु सञ्चरते देशान्यस्तु सेवेत पण्डितान्।
तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि॥२॥
व्यापारान्तरमुत्सृज्य वीक्षमाणो वधूमुखम्।
यो गृहेष्वेव निद्राति दरिद्राति स दुर्मतिः॥३॥
देशे देशे किमपि कुतुकादद्भुतं लोकमानाः संपाद्यैव द्रविणमतुलं सद्य भूयोऽप्यवाप्य।
संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः॥४॥
आकिंचन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो भूपालानामननुसरणाद्विभ्यदेवाखिलेभ्यः।
गेहे तिष्ठन्कुमतिरलसः कूपकूर्मैः सधर्मा किं जानीते भुवनचरुतं किं सुखं चोपभुङ्क्ते॥५॥










<poem>