सुभाषितसङ्ग्रहः/समयोचितसदुक्तयः

विकिसूक्तिः तः

<poem> अयं निजः परो वेति गणना लघुचेतसाम्। उदारचरितानां तु वसुधैवकुटम्बकम्॥१

क्षणशः कणशश्चैव विद्यां अर्थं च साधयेत्। क्षणे नष्टे कुतो विद्या कणे नष्टे कुतो धनम्॥२

अश्वस्य भूषणं वेगो मत्तं स्याद गजभूषणम्। चातुर्यं भूषणं नार्या उद्योगो नरभूषणम्॥३

क्षुत्तृडाशाः कुटुम्बिन्या मयि जीवन्ति नान्यगाः। तासामाशा महासाध्वी कदाचिन्मां न मुञ्चति॥४

कुलस्यार्थे त्यजेदेकम् ग्राम्स्यार्थे कुलंज्येत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्॥५

नाक्षरं मंत्रहीनं च न च मूलमनौ़षधम्। अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः॥६

धारणाद्धर्ममित्याहुः धर्मो धारयत प्रजाः। यस्याद्धारणसंयुक्तं स धर्म इति निश्चयः॥७

आहारनिद्राभयमैथुनं च सामान्यमेतत् पशूनां नराणाम्। धर्मो हि तेषां अधिकोविशेषो धर्मेण हीनाः पशुभिः समानाः॥८

सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत्। यद्भूतहितमत्यन्तं एतत् सत्यं मतं मम्॥९

सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम्। प्रियं च नानृतम् ब्रूयादेषः धर्मः सनातनः॥१०

दूरस्थोऽपि न दूरस्थः यो यस्य मनसि स्थितः । यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ॥ ११

कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः । अनेकदोषदुष्टोऽपि कायः कस्य न वल्लभः॥ १२

स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः । स्वराष्ट्रे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥ १२

विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥ १३

कर्ता कारयिता चैव। प्रेरकश्चानुमोदकः। सुकृते दुष्कृते चैव। चत्वारः समभागिनः।। १४

गते शोको न कर्तव्यो भविष्यं नैव चिंतयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः॥ १५

अग्निशेषमृणशेषं शत्रुशेषं तथैव च । पुनः पुनः प्रवर्धेत तस्मात् शेषं न कारयेत्॥ १६

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा प्रदीयते ।।१७

नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १८

वनानि दहतो वह्नेः सखा भवति मारूतः । स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥१९

विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्यः साधोः विपरीतम् एतत् ज्ञानाय दानाय च रक्षणाय ॥ २०

दुर्बलस्य बलं राजा, बालानां रोदनं बलम् । बलं मूर्खस्य मौनित्वं, चोराणाम् अनृतं बलम्॥ २१

अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च । अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ॥ २२

अष्टादशपुराणानां सारं व्यासेन कीर्तितम् । परोपकारः पुण्याय पापाय परपीडनम्॥२३

हिमालयं समारभ्य यावदिन्दुसरेावरम् । तं देवनिर्मितं देशं हिंदुस्थानं प्रचक्षते ॥२४

एतद्देशप्रसूतस्य सकाशादग्रजन्मना । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥२५

अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ २६

क्षणशः कणश्चैव विद्यामर्थं च साधयेत् । क्षणे नष्टे कुतो विद्या, कणे नष्टे कुतो धनम् ॥ २७

अश्वस्य भूषणं वेगो मत्तं स्याद्गजभूषणं । चातुर्यं भूषणं नार्याः उद्योगो नरभूषणम् ॥ २८

कुलस्यार्थे त्यजेदेकम् ग्राम्स्यार्थे कुलन्त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ २९

अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम् । अयोग्यः पुरूषः नास्ति योजकस्तत्र दुर्लभः ॥ ३०

धारणाद्धर्म इत्याहुः धर्मो धारयते प्रजाः । यस्याद्धारणसंयुक्तं स धर्म इति निश्चयः ॥ ३१

आहारनिद्राभयमैथुनं च सामान्यमेतद्धि नृणां पशूनां । (आहारनिद्राभयमैथुनानि सामान्यमेतानि नृणां पशूनां ।) धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः ॥३२

आहारनिद्राभयमैथुनानि चत्वारि चिह्नानि वसन्ति देहे । ज्ञानं नराणामधिकं हि लोके ज्ञानेन (तेनैव) हीनः पशुभिस्समानः ॥

सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् । यद्भूतहितमत्यन्तम् एतत् सत्यं मतं मम ॥ ३३

न राज्यं नैव राजासीत् न दण्ड्यो न च दाण्डिकः । धर्मेणैव प्रजास्सर्वा रक्षन्ति स्म परस्परम् ॥ ३४

सत्यं ब्रूयात् प्रियम् ब्रूयान्न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेषः धर्मः सनातनः ॥ ३५

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते । जननी जन्मभूमिश्च स्वर्गादपि गरियसी ॥३६

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां निद्रया कलहेन वा ॥३७

तैलाद्रक्षेत् जलाद्रक्षेत् रक्षेच्छिथिलबन्धनात् । मूर्खहस्ते न दातव्यं एवं वदति पुस्तकम् ॥३८

श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करूणापराणां परोपकारैर्नतु चन्दनेन ॥३९

उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् । विरक्तस्य तृणं भार्या निस्पृहस्य तृणं जगत् ॥४०

विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥४१

दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत् । उष्णो दहति चांगारः शीतःकृष्णायते करम् ॥४२

द्राक्षा म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषितरसस्याग्रे सुधा भीता दिवं गता ॥ ४३

चिन्तनीया हि विपदामादावेव प्रतिक्रिया । न कूपखननं युक्तं प्रदीप्ते वान्हिना गृहे ॥४४

एकं विषरसं हन्ति शस्त्रेणैकश्च वध्यते । सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥४५

आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने । दीर्घमायुर्बलं वीर्यं तेजस्तेषां च जायते ॥४६

ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते । गुणाद्गुरुत्वमायाति दुग्धं दधि घॄतं क्रमात् ॥४७

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मॄगाः ॥४८

स्थानभ्रष्टाः न शोभते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ ४९

उदये सविता रक्तो रक्तश्चास्तमये तथा । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥ ५०

शान्तितुल्यं तपो नास्ति तोषान्नपरमं सुखम् । नास्ति तृष्णापरो व्याधिर्न च धर्मो दयापरः ॥ ५१

हंसः श्वेतो बकः श्वेतो को भेदो बकहंसयोः । नीरक्षीरविवेके तु हंसः हंसो बको बकः ॥५२

काकः कृष्णः पिकः कृष्णः को भेदः काकपिकयोः । वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ ५३

अहं च त्वं च राजेन्द्र लोकनाथावुभावपि । बहुव्रीहिरहं राजन् षष्ठीतत्पुरूषो भवान् ॥५४

सुलभाः पुरूषाः राजन् सततं प्रियवादिनः। अप्रियस्य च सत्यस्य वक्ता श्रोता च दुर्लभः॥५५

दुर्जनः प्रियवादीति नैतद् विश्वासकारणम् । मधुतिष्ठति जिव्हाग्रे हृदये तु हलाहलम्॥५६

सर्पदुर्जनोर्मध्ये वरं सर्पो न दुर्जनः । सर्पः दंशती कालेन दुर्जनस्तु पदे पदे ॥५७

वरमेको गुणी पुत्रो न च मूर्खशतान्यपि । एकचन्द्रस्तमो हन्ति न च तारागणोऽपि च ॥ ५८

विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥ ५९

विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः । आवेष्टितं महासर्पैश्चंदनं न विषायते ॥ ६०

शमार्थं सर्वशास्त्राणि विहितानि मनीषिभिः । स एव सर्वशास्त्रज्ञः यस्य शान्तं मनः सदा ॥६१

वृक्षाञ्छित्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गः नरकः केन गम्यते ॥६२

वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥६३

विदुरनीति सदा वक्रस्सदारुष्टः सदापूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥६४

वलीभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥६५

गृहं गृहमटन् भिक्षुः शिक्षते न तु याचते । अदत्वा मादृशो मा भूः दत्वा त्वं त्वादृशो भव ॥६६

इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि । इदमेव सुबुद्धित्वमायादल्पतरो व्ययः ॥६७

घटं भिद्यात् पटं छिन्द्यात् कुर्यात् रासभरोहणम् । येन केनाप्युपायेन प्रसिद्धः पुरुषो भवेत् ॥६८

उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति न कदापि तु वारिधिः ॥६९

रात्रिर्गमिष्यति भविष्यति सुप्रभातम् । भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे । हा हन्त हन्त नलिनीं गज उज्जहार ॥ ७०

भवन्ति नम्रास्तरवः फलोद्गमैः । नवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः । स्वभाव एवैष परोपकारिणाम् ॥७१

लभेत सिकतासु तैलमपि यत्नतः पीडयन् । पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचिदपि पर्यटन् शशविषाणमासादयेत् । न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥७२

प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिरात्मनि । कीटबुद्धिर्मनुष्येषु नूतनायाः श्रियः फलम् ॥ ७३

उदीरितोऽर्थः पशुनापि गृह्यते । हयाश्च नागाश्च वहन्ति देशिताः ॥ ६४

अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥६५

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥६६


रत्नैर्महाहैः तुतुषुर्न देवा: न भेजिरे भीमविषेण भीतिम् । अमृतं विना न प्रययुर्विरामं न निश्चिदार्थात् विरमन्ति धीराः ॥६७

घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥६८

तॄणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः । स्वभाव एवोन्नतचेतसामयं महान्महत्स्वेव करोति विक्रमम् ॥६९

प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः । त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः ॥७०

प्रथमे नार्जिता विद्या द्वितीये नार्जितं धनं । तृतीये नार्जितं पुण्यं चतुर्थे किं करिष्यति ॥७१

अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणम् । प्रारब्धस्य अन्तगमनं द्वितीयं बुद्धीलक्षणम् ॥ ७२

लौकिकानां हि साधूनाम् अर्थं वागनुवर्तते । ऋषीणां पुनरादयानां वाचम् अर्थोऽनुधावति ॥७३

परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै । विस्मरन्तीह शिष्टत्वं स्वकार्ये समुपस्थिते ॥७४

निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषमस्तु न चाप्यस्तु फणाटोपो भयङ्करः ॥७५

गुणवन्तः क्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः । बन्धनमायान्ति शुका यथेष्टसंचारिणः काकाः ॥७६

अभिमानो धनं येषां चिरजीवन्ति ते जनाः । अभिमानविहीनानां किं धनेन किमायुषा ॥७७

नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः । नास्ति रागसमं दुःखम् नास्ति त्यागसमं सुखम् ॥७८

त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सहोदराश्च । तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके पुरुस्य बन्धुः ॥७९

यस्तु सञ्चरते देशान् सेवते यस्तु पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥८०

कुसुमं वर्णसम्पन्नं गन्धहीनं न शोभते । न शोभते क्रियाहीनं मधुरं वचनं तथा ॥८१

उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् । सोत्साहस्य च लोकेषु न किंचिदपि दुर्लभम् ॥८२

यस्य नास्ति स्वयं प्रज्ञा शात्रं तस्य करोति किम् । लोचनाभ्याम् विहीनस्य दर्पणः किं करिष्यति ॥८३

व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् । आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम् ॥८४

पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः । जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥८५

नरस्याभरणं रूपं रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥८६

अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥८७

चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥८८

स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥८९

विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥९०

पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु । लुब्धेन सञ्चितं (लुब्धेनोपार्जितं) द्रव्यं समूलं हि (च) विनश्यति ॥९१

ज्येष्ठत्वं जन्मना नैव गुणैर्ज्येष्ठत्वमुच्यते । गुणाद्गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥९२

कर्ता कारयिता चैव प्रेरकश्चानुमोदकः । सुकृते दुष्कृते चैव चत्वारः समभागिनः ॥९३

अश्वस्य भूषणं वेगं मत्तं स्याद्गजभूषणम् । चातुर्यं भूषणं नार्या उद्योगं नरभूषणम् ॥९४

भुक्त्वा तृणानि शुष्कानि पीत्वा तोयं जलाशयात् । दुग्धं ददति लोकेभ्यः गावो लोकस्य मातरः ॥ ९५

वने रणे शत्रुजलाग्निमध्ये । महार्णवे पर्वतमस्तके वा । सुप्तंव प्रमत्तं विषमस्थितं वा । रक्षन्ति पुण्यानि पुराकृतानि ॥ ९६

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि तस्य वर्धन्ते आयुर्विद्यायशोबलम् ॥९७

भार्गवेण हता माता एक जायाश्च पाण्डवाः । परदाररतः कृष्णो न देव चरितं चरेत् ॥९८

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मुर्खैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥९९

वरमेको गुणी पुत्रः न च मुर्खश्शतान्यपि । एकश्चन्द्रस्तमो हन्ति न च तारा गणोऽपि च ॥१००

सम्पूर्णकुम्भो न करोति शब्दम् । अर्धो घटो घोषमुपैति नूनम् । विद्वान्कुलीनो न करोति गर्वं । मुढास्तु जल्पन्ति गुणैर्विहीनाः ॥१०१

लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत् । प्राप्तेप तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥१०२

सत्कुले योजयेत् कन्यां पुत्रं विद्यासु योजयेत् । व्यसने योजयेच्छत्रुम् इष्टं धर्मेण योजयेत् ॥१०३

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।

एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥१०४

अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् ॥१०५

आशायाः ये दासास्ते दासाः सर्वलोकस्य । आशा येषां दासी तेषां दासायते लोकः ॥१०६

वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता । निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥१०७

वस्त्रेण वपुषा वाचा विद्यया विनयेन च । वकारैः पञ्चभिर्हीनः नरो नायाति गौरवम् ॥१०८

क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् । क्षण त्यागे कुतो विद्या कण त्यागे कुतो धनम् ॥१०९

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवलेशदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥११०

दुर्लभं त्रयमेवैतत् दैवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥१११

आरम्भगुर्वी क्षयिणी क्रमेण । लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्ध भिन्ना । छायेव मैत्री खलसज्जनानाम् ॥११२

यस्मिन् देशे न सम्मानो न प्रीतिर्न च बन्धवाः । न च विद्यागमः कश्चिन्न तत्र दिवसं वसेत् ॥११३

अष्टादशपुराणानं सारं व्यासेन कीर्तितम् । परोपकारः पुण्याय पापाय परपीडनम् ॥११४

वनानि दहतो वह्नेः सखा भवति मारुतः । स एव दीप नाशाय कृशे कस्यास्ति सौहृदम् ॥११५

गङ्गा पापं शशी तापं दैन्यं कल्पतरुस्तथा । पापं तापं च दैन्यं च घ्नन्ति सन्तो महाशयाः ॥११६

न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारि। व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥११७

न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति सद्बुध्या योजयन्ति तम् ॥११८

प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः । त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः ॥११९

पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः । न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥१२०

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियञ्च नानृतं ब्रूयात् एष धर्मस्सनातनः ॥१२१

’गु’ शब्दस्तु अन्धकारः ’रु’ शब्दस्तु तन्निवारकः । अन्धकार निरोधत्वात् गुरुरित्यभिधीयते ॥१२२

गच्छत् पिपीलिका याति योजनानां शतान्यपि । अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति ॥१२३

पुस्तकस्था तु या विद्या परहस्तगतं धनम् । कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥१२४

दीनगोचरदयापरिहीनं यस्य मानसमतीव कठोरम् । तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥१२५

यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति । तस्य दिनकरकिरणैर्नलिनीदलमिव विकास्यते बुद्धिः ॥१२६

मूलं भुजङ्गैः शिखरं प्लवङ्गैः । शाखा विहङ्गैः कुसुमं च भृङ्गैः । श्रितं सदा चन्दनपादपस्य । परोपकाराय सतां विभूतयः ॥१२७

नरस्याभरणं रूपं रूपस्याभरणं गुणाः । गुणस्याभरणम् ज्ञानं ज्ञानस्याभरणम् क्षमा ॥१२८

जिह्वे प्रमाणं जानीहि भाषणे भोजनेऽपि च । अत्युक्तिरतिभुक्तिश्च सत्यं प्राणापहारिणी ॥१२९

उत्तमाः आत्मना ख्याताः पितुः ख्याताः च मध्यमाः । अधमाः मातुलात् ख्याताः श्वशुरात् च अधमाधमाः ॥ १३०

उद्यमस्साहसं धैर्यं बुद्धिश्शक्तिः पराक्रमः । षडेते यत्र वर्तन्ते तत्र देवाः सहायकृत् ॥ १३१

ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा । अक्षि द्वे मनुष्याणां जिह्वात्वैकेव निर्मिता ॥१३२

उदये सविता रक्तः रक्तश्चास्तमये तथा । सम्पत्तौ च विपत्तौ च महतामेकरूपता ॥१३३

ऋणशेषःअग्निशेषः शत्रुशेषस्तथैव च । पुनः पुनः प्रवर्धन्ते तस्मात् शेषं न रक्षयेत् ॥१३४

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्त स्य सिंहस्य प्रविशन्ति मुखे मृगाः॥१३५

शिशौ प्रविशतः प्रायः प्रतिवेशिगुणागुणौ । गन्धोऽन्यसन्निधेरेव संक्रामति समीरणे ॥१३६

मन्त्रे तीर्थे द्विजे दैवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यत्र सिद्दिर्भवति तादृशी ॥१३७

गीती शीघ्री शिरः कम्पी यथालिखितपाठकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः॥१३८

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु । लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ॥ १३९

अद्यैव वा मरणमस्तु युगान्तरे वा ।

न्यायात् पथः प्रविचलन्ति पदं न धीराः ॥१४०

दानेन पाणिर्न तु कङ्कणेन । स्नानेन शुद्धिर्न तु चन्दनेन । मानेन तृप्तिधर्न तु भोजनेन । ज्ञानेन मुक्तिर्न तु पूजनेन ॥१४१

त्यज दुर्जनसंसर्गं भज साधुसमागमम् । कुरु पुण्यमहोरात्रं स्मर सर्वेश्वरं सदा ॥१४२

नाभिषेको न संस्कारः सिंहस्य क्रियते वने । विक्रमार्जितसत्वस्य स्वयमेव मृगेन्द्रता ॥१४३

विदेशेषु धनं विद्या व्यसनेषु धनं मतिः । परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥१४४

छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे । फलन्त्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥१४५

वृथा वृष्टिः समुद्रेषु वृथा तृप्तुस्य भोजनम् । वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥१४६

निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । नहि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥१४७

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः । न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते । क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १४८

तैलाद्रक्ष जलाद्रक्ष रक्ष मां श्लथबन्धनात् । आखुभ्यः परहस्तेभ्यः एवं वदति पुस्तकम् ॥१४९

व्याघ्री यथा हरेत् पुत्रान् दंष्ट्राभ्यां न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत् ॥१५०

लक्ष्मीर्वसति जिह्वाग्रे जिह्वाग्रे मित्र बान्धवाः । जिह्वाग्रे बन्धनं प्राप्तं जिह्वाग्रे मरणं ध्रुवम् ॥१५१

धनवन्तमदातारं दरिद्रं चातपस्विनम् । मज्जयेदर्णवेऽशङ्कं कण्ठे बद्ध्वा दृढां शिलाम् ॥१५२

शीलं शौर्यमनालस्यं पाण्डित्यं मित्र संग्रहः । अचोरहरणीयानि पञ्चैतान्यक्षयो निधिः ॥१५३

एकमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्वा चानृणीभवेत् ॥१५४

चिन्तनीया हि वीपदामादावेव प्रतिक्रिया । न कूपखननं युक्तं प्रदीप्ते वह्निना गृहे ॥१५५

रे रे चातका! सावधानमनसा मित्र क्षणं श्रूयताम् । अम्बोधा बहवो वसन्ति गगने सर्वेऽपि नैकादृशा ॥१५६

केचित् वृष्टिभिराद्रयन्ति धरणिं गर्जन्ति केचिद्वृथा । यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥१५७

यद्यदालिखति मनः आशावर्तिकाभीः हृदयफलके । तत्तद्बाल इव विधिर्निभृतं हसित्वा प्रोञ्छति ॥१५८

किं मित्रमन्ते सुकृतं न लोकाः। किं ध्येयमीशस्य पादं न शोकाः । किं काम्यमव्याजसुखं न भोगाः किं जल्पनीयं हरिनाम नान्यत् ॥१५९

अहन्यहनि भूतानि गच्छन्तीह यमालयम् । शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥१६०

लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभात् मोहश्च नाशश्च लोभः पापस्य कारणम् ॥१६१

पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः । जातौ जातौ नवाचारा नवा वाणी मुखे मुखे ॥१६२

सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य॥१६३

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुः श्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥१६४

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम् ॥१६५

नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानाञ्च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥१६६

स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते । मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ॥१६७

अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव शट्पदः ॥१६८

गुणाः सन्ति नराणां चेद्विकसन्त्येव ते स्वयम् । न हि कस्तूरिकामोदः शपथेन निवार्यते ॥१६९

कृतस्य करणं नास्ति मृतस्य मरणं तथा । गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम् ॥१७०

धर्मो यशो नयो दाक्ष्यं मनोहारिसुभाषितम् । इत्यादिगुणरत्नानां सङ्ग्रही नावसीदति ॥१७१

आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥१७२

आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया । कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥१७३

अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा । अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥१७४

श्रेयांसि बहु विघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां दूरं यान्ति विनायकाः ॥१७५

रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं भीभत्सं न संरोहति वाक्क्षतम् ॥१७६

शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । सर्वदा सर्वयत्नेन पुत्रे शिष्यवदाचरेत् ॥१७७

विषस्य विषयाणाञ्च दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥१७८

सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी । अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥१७९

शनैः शनैर्विनीयन्ते तर्जनैस्तोषणैरपि । नवा इवाश्वाः कुशलैर्बालाश्चपलचेतसः ॥१८०

दुःखे दुःखाधिकान्पश्येत् सुखे पश्येत्सुखाधिकान् । आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥१८१

वैद्यानां शारदी माता पिता च कुसुमाकरः । यमदम्ष्ट्रा स्वसा प्रोक्ता हितभुक् मितभुक् रिपुः ॥१८२

रिक्तपाणी न पश्येत राजानं दैवतं गुरुम् । दैवज्ञं पुत्रकं मित्रं फलेन फलमादिशेत् ॥१८३

अक्षराणि परीक्ष्यन्तामम्बराडम्बरेण किम् । शम्भुरम्बरहीनोऽपि सर्वज्ञः किं न कथ्यते ॥१८४

सर्वतीर्थमयी माता सर्वदेवमयः पिता । मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत् ॥१८५

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमित्यूचुः दानमेकं कलौ युगे ॥१८६

किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै तद्भवेत्तस्य सुन्दरम् ॥१८७

क्षन्तव्यो मन्दबुद्धीनामपराधो मनीषिणा । न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित् ॥१८८


यद्यदालिखति मनः आशावर्तिकाभीः हृदयफलके । तत्तद्बाल इव विधिर्निभृतं हसित्वा प्रोञ्छति ॥ १८८

किं मित्रमन्ते सुकृतं न लोकाः । किं ध्येयमीशस्य पादं न शोकाः । किं काम्यमव्याजसुखं न भोगाः किं जल्पनीयं हरिनाम नान्यत् ॥ १८९

अहन्यहनि भूतानि गच्छन्तीह यमालयम् । शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ १९०

पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः । जातौ जातौ नवाचारा नवा वाणी मुखे मुखे ॥ १९१

सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि । छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ १९२

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥ १९३

तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्याऽन्या शिल्पनैपुणम् ॥ १९४

शुभं करोति कल्याणम् आरोग्यं धनसम्पदः । शत्रुबुद्धि विनाशाय दीपज्योतिर्नमोस्तुते ॥ १९५

नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानाञ्च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥ १९६

स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते । मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ॥१९७

अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव शट्पदः ॥१९८

गुणाः सन्ति नराणां चेद्विकसन्त्येव ते स्वयम् । न हि कस्तूरिकामोदः शपथेन निवार्यते॥१९९

कृतस्य करणं नास्ति मृतस्य मरणं तथा । गतस्य शोचनं नास्ति ह्येतद्वेदविदां मतम् ॥२००

आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥२०२

आचार्यात् पादमादत्ते पादं शिष्यः स्वमेधया । कालेन पादमादत्ते पादं सब्रह्मचारिभिः ॥२०३

श्रेयाम्सि बहु विघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां दूरं यान्ति विनायकाः ॥२०४

रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं भीभत्सं न सम्रोहति वाक्क्षतम् ॥२०५

शत्रोरपि गुणा वाच्या दोषा वाच्या गुरोरपि । सर्वदा सर्वयत्नेन पुत्रे शिष्यवदाचरेत् ॥२०६

विषस्य विषयाणाञ्च दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥२०७

सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी । अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥२०८

शनैःशनैर्विनीयन्ते तर्जनैस्तोषणैरपि । नवा इवाश्वाः कुशलैर्बालाश्चपलचेतसः ॥२०९

दुःखे दुःखाधिकान्पश्येत् सुखे पश्येत्सुखाधिकान् । आत्मानं शोकहर्षाभ्यां शत्रुभ्यामिव नार्पयेत् ॥ २१०

वैद्यानां शारदी माता पिता च कुसुमाकरः । यमदंष्ट्रा स्वसा प्रोक्ता हितभुक् मितभुक् रिपुः ॥२११

रिक्तपाणीर्नपश्येत राजानं दैवतं गुरुम् । दैवज्ञं पुत्रकं मित्रं फलेन फलमादिशेत् ॥२१३

अक्षराणि परीक्ष्यन्तामम्बराडम्बरेण किम् । शम्भुरम्बरहीनोऽपि सर्वज्ञः किं न कथ्यते ॥२१४

सर्वतीर्थमयी माता सर्वदेवमयः पिता । मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत् । तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमित्यूचुः दानमेकं कलौ युगे ॥२१५

किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै तद्भवेत्तस्य (भवेत्तत्तस्य) सुन्दरम् ॥२१६

क्षन्तव्यो मन्दबुद्धीनामपराधो मनीषिणा । न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित् ॥२१७

वृक्षान् छित्वा पशून्हत्वा कृत्वा रुदिरकर्दमम् । यद्येवं गम्यते स्वर्गे नरकः केन गम्यते ॥२१८

वनस्पतेरपक्वानि फलानि प्रचिनोति यः । स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥२१९

सदा वक्रस्सदारुष्टः सदापूजामपेक्षते । कन्याराशिस्थितो नित्यं जामाता दशमो ग्रहः ॥२२०

तृणाल्लघुतरस्तूल: तूलादपि च याचकः। वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥२२१

जठरं पूरयेदर्धं तदर्धं तु जलेन च| वायोः संचरणार्थाय पादमेकं परित्यजेत्||२२२

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् आयुः परिस्रवति भिन्नघटादिवाsम्भो लोकस्तथाsप्यहितमाचरतीति चित्रम्|| २२३

चण्डालो वा श्वपाको वा काले यः कश्चिदागतः। अन्नेन पूजनीयः स्यात् परत्र हितमिच्छता॥ २२४

दुर्जनं सज्जनं कर्तुमुपायो न हि भूतले| अपानं शतधा धौतं न श्रेष्ठमिन्द्रियं भवेत्||२२५

न दुर्जनः साधुदशामुपैति बहुप्रकारैरपि शिक्ष्यमाणः| आमूलसिक्तं पयसा घृतेन किं निम्बवृक्षो मधुरत्वमेति||२२५

शरदम्बुधरच्छायागत्वर्यः यौवनश्रियः| आपातरम्या विषयाः पर्यन्तपरितापिनः||२२६

न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ २२७

नदीनां शस्त्रपाणीनां नखिनां शृंगिणां तथा| विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च|| २२८

कामक्रोधौ तथा लोभं स्वादु शृङ्गारकौतुके । अतिनिद्रातिसेवे च विद्यार्थी ह्यष्ट वर्जयेत्॥२२९

वस्त्रदानफलं राज्यं पादुकाभ्यां च वाहनं| ताम्बूलाद्भोगमाप्नोति अन्नदानात्फलत्रयम्|| २३०

यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरं | तथा कर्म च कर्ता च सम्बद्धौ सर्वजन्तुषु ||२३१

एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु । तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मृतम्|| २३२

अर्थातुराणां न सुखं न निद्रा कामातुराणां न भयं न लज्जा । विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न वेला ॥ २३३

शय्या वस्त्रं चन्दनं चारुहास्यं वीणा वाणी दृश्यते या च नारी । न भ्राजन्ते क्षुत्पिपासातुराणां सर्वारम्भास्तण्डुलप्रस्थमूलाः ॥ २३४

पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह | पञ्चभिः सह वक्तव्यं न दुःखं पञ्चभिः सह || २३५

आबाल्यादामृतेः पुंसः कोऽनध्यायः क्षणो भवेत् । भागीरथ्यां महानद्यां नास्ति भागो ह्यपावनः ॥ २३६

लोभात्क्रोधःप्रभवति लोभात्कामः प्रजायते| लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्||

धर्मं चरत माधर्मं सत्यं वदत माऽनृतम्| दीर्घं पश्यत मा ह्रस्वं परं पश्यत माऽपरम्||

दुर्जनस्य च सर्पस्य वरं सर्पो न दुर्जनः| सर्पो दशति कालेन दुर्जनस्तु पदे पदे||

गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः| दुष्प्रयुक्ता पुनर्गोत्वं प्रयोक्तुः सैव शंसति||

नाभिनन्देत मरणं नाभिनन्देत जीवितम्| कालमेव प्रतीक्षेत निदेशं भृतको यथा||

सहायेन विना नैव कार्यं किमपि सिध्यति| एकेन चरणेनापि गतिः कस्य प्रवर्तते||

ते पुत्राः ये पितुर्भक्ताः स पिता यस्तु पोषकः|

तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः||

दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्| व्याधितस्यौषधं पथ्यं नीरुजस्तु किमौषधैः||

गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति वै द्विजाः| चारैः पश्यन्ति क्षितिपाश्चक्षुर्भ्यामितरे जनाः||

सन्तोsपि न हि राजन्ते दरिद्रस्येतरे गुणाः| आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी||

नोद्विजयेज्जगद्वाचा ऋक्षया प्रियवाग्भवेत्| प्रायेण प्रियकर्मा यः कृपणोऽपि हि सेव्यते||

विद्वान्प्रशस्यते लोके विद्वान् गच्छति गौरवम्| विद्यया लभ्यते सर्वं विद्या सर्वत्र पूज्यते||

पत्यौ भक्तिर्व्रतं स्त्रीणामद्रोहो मन्त्रिणां व्रतम्| प्रजानां पालनं चैव नियतं भूभृतां व्रतम्||

वर्धमानमृणं राजन्परिभूताश्च शत्रवः| जनयन्ति भयं तीव्रं व्याधयश्चाप्युपेक्षिताः||

गते हि दुर्दशां लोके क्षुद्रोऽप्यहितमाचरेत्| पङ्के निमग्ने करिणि भेको भवति मूर्धगः||

भग्नाशस्य करण्डपिण्डिततनोः म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा (यथा) लोकाः पश्यत (स्वस्थाः तिष्ठत) दैवमेव हि नृणाम् वृद्धौ क्षये कारणम् ॥

उष्ट्रः कण्टकमेवात्ति तृणं गौः दर्दुरो मृदं| शिलाकणान् कपोतोsत्ति नरः शाल्योदनप्रियः

विद्वानेव विजानाति विद्वज्जनपरिश्रमम्| न हि वन्ध्या विजानाति गुर्वीं प्रसववेदनाम्||

संयतं कोमलं चित्तं साधोरापदि कर्कशम्| सुकुमारं मधौ पत्रं तरोस्स्यात्कर्कशं शुचौ||

कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः| वचोविन्यासवैचित्र्यमात्रमत्र विचार्यतां||

वाति गन्धः सुमनसां प्रतिवातं कथञ्चन| धर्मजस्तु मनुष्याणां वाति गन्धः समन्ततः||

सर्वथा दृष्टकार्यस्य ह्यपलापो न युज्यते| न चेदीशप्लुतं त्याज्यं नारिकेलफले जलम्||

अद्यापि बुद्धिवैशद्यसिद्यर्थं वक्रमुद्रया| आलिख्य वर्णशिक्षायां मेधामाधावयन्ति हि||

श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः| परोपकारः पुण्याय पापाय परपीडनम्||

अनित्यानि शरीराणि विभवो नैव शाश्वतः| मृत्युः सन्निहितो नित्यं कर्तव्यो धर्मसङ्ग्रहः||

अवारिदायिनो दाहं चानन्नदायिनः क्षुधाम्| प्राप्नुवन्ति नराः काले तस्मिन्मृत्यावुपस्थिते||

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥

श्रुतिर्विभिन्ना स्मृतयोऽपि भिन्नाः नैको मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायाम् महाजनो येन गतः स पन्थाः ॥

अल्पानामिप वस्तूनां संहतिः कायर्सािधका । तृणैर्गुणत्वमापन्ने बध्यन्ते मत्तदन्तिनः ॥

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः नैको मुनि र्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायाम् महाजनो येन गतः स पन्थाः ॥

अचिनोति च शास्त्रार्थं आचारे स्थापयत्यति । स्वयमप्याचरेदस्तु स आचार्यः इति स्मृतः ॥

शनैः पन्थाः शनैः कन्था शनैः पर्वतमस्तके । शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ॥

अहमेव गुरुः सुदारुणानामिति हालाहल मा स्म तात दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ॥

राजानं प्रथमं विन्देत्ततो भार्या ततो धनं| त्रयस्य संचये पश्चाज्ज्ञातीन् पुत्रांश्च धारयेत्||

समं बाष्पेण पतता तस्योपरि ममाप्यधः| पितुर्मे क्लेदितौ पादौ ममापि क्लेदितं शिरः||

अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य प्रिग्रहीतुः| जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ||

निष्पक्षपातमुत्कृष्टो गुणं दोषं च निर्णयेत्| सुरूपं वा कुरूपं वा मुकुरो हि प्रदर्शयेत्||

शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः| भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः||

सुभिक्षं कृषके नित्यं नित्यं सुखमरोगिणि| भार्या भर्तुः प्रिया यस्य तस्य नित्योत्सवं गृहम्||

दाक्ष्यस्थैर्यविवेचनविभाविते मानसा स्थिता शुक्का| कुटजमहौषधकाञ्जिकलिप्ते शिरसि स्थिता रुक्का||

देवैकशरणं पुंसि वृथा कृष्यादयः क्रियाः| अकृत्वा कञ्चिदारम्भं आकाशकवलो भवेत्||

गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः| आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः||

दीर्घप्रयासेन कृतं हि वस्तु निमेषमात्रेण भजेद्विनाशं| कर्तुं कुलालस्य तु वर्षमेकं भेत्तुं हि दण्डस्य मुहूर्तमात्रम्||

आत्मानमेव मन्येत कर्तारं सुखदुःखयोः तस्माच्छ्रेयस्करं मार्गं प्रतिपद्येत न त्रसेत्||

शनैरर्थः शनैः पन्थाः शनैः पर्वतमारुहेत्| शनैर्विद्या च धर्मश्च व्यायामश्च शनैःशनैः||

नीरोद्भवस्य पद्मस्य मत्स्यस्य कुमुदस्य च । एकत्रैव प्रसूतानां ते़षां गन्धः पृथक् पृथक् ॥