सूक्तयः (जकारादिः)

विकिसूक्तिः तः
  • जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
  • जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
  • जातस्य हि ध्रुवो मृत्युः।
  • जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।
  • जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।
  • ज्ञानं भारः क्रियां विना ।
  • ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
  • ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।
"https://sa.wikiquote.org/w/index.php?title=सूक्तयः_(जकारादिः)&oldid=4481" इत्यस्माद् प्रतिप्राप्तम्