सूचिमुखन्यायः
दिखावट
एकस्मित् पर्वते केचन वानराः वसन्ति स्म । क्वचित् शैत्यकाले सर्वे वानराः कम्पमानाः अग्निं ज्वालायितुं कञ्चन उपायं चिन्तितवन्तः । तदा तत्र गुञ्जफलानि दृष्टानि । तानि एव अग्निकणान् मत्वा वानरैः गुञ्जाफलानि सञ्चितानि । फूत्कारः कृतः । परन्तु अग्निः न प्रज्वलितः । तदा तत्र एव विद्यमानः सूचिमुखनामकः कश्चन पक्षिविशेषः तान् सत्यं बोधयितुम् उद्यृक्तः अभवत् । परन्तु कुपिताः वानराः तं मारितवन्तः । एवम् अयोग्याय दत्तः उपदेशः अनर्थं जनयति इति भावः । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ पञ्चतन्त्रे १-४-२० (सा. ८०२)