सूत्रशाटिकान्यायः

विकिसूक्तिः तः

एकदा कश्चन तन्तुवायं प्रति गत्वा “ एतैः सूत्रैः शाटिकां वय” इति उक्तवान् । तदा सः तन्तुवायः चिन्तितवान् शाटिकां वय इति कथं भवेत् ? वयनात् अनन्तरम् एव शाटिका भवति खलु इति चिन्तितवान् । इग्यणः संप्रसारणम् इति पाणिनीयसूत्रे (१-१-४५) महाभाष्ये अयम् उल्लिखितः ।

"https://sa.wikiquote.org/w/index.php?title=सूत्रशाटिकान्यायः&oldid=11324" इत्यस्माद् प्रतिप्राप्तम्