सेयं देवता ऐक्षत हन्ताहम्...

विकिसूक्तिः तः

सेयं देवता ऎक्षत हन्ताहम् इमाः तिस्रो देवताः अनेन जीवेनात्मना
अनुप्रविश्य नामरूपे व्याकरवाणि इति । - छान्दोग्योपनिषत् ६-३-२

सा एषा परा देवता एवं चिन्तितवती 'हन्त अहम् इमाः तिस्रो देवताः भूत्वा, अनेन जीवेन आत्मना
इदं शरीरं प्रविश्य, नामरूपे व्याकरवाणि'।

परस्यैव ब्रह्मणः ‘परा देवता’ इति नामान्तरम् । इदं विश्वं सृष्ट्वा, जीवरूपेण अनुप्रविश्य, नामरूपाकारेण
अवभासमानं परब्रह्मैव, न तु अचेतनं प्रधानम् । कापिले साङ्ख्यदर्शने प्रतिपादितम् अचेतनं प्रधानं वेदान्तेषु
जगत्कारणत्वेन नाभ्युपगतमस्ति । प्रत्युत, सर्वभूतानाम् आत्मभूतं चिन्मात्रस्वरूपं परमेव ब्रह्म जगत्कारणमिति
वेदान्तेषु अभ्युपगम्यते ॥

तेजः आपः अन्नम् इत्येतानि त्रीणि भूतानि सृष्ट्वा, तदद्वारा इमं प्रपञ्चं सृष्ट्वा अनन्तरं तदेव परं ब्रह्म अस्मिन् जगति
जीवरूपेणापि अवभासते । संसारिजीवरूपेण अवभासमानं परब्रह्मैव । जीवाः परब्रह्मस्वरूपा एव, नैव तु ब्रह्मभिन्नाः ॥