सैषा भार्गवी वारुणी...

विकिसूक्तिः तः

सैषा भार्गवी वारुणी विद्या । परमे व्योमन् प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति ॥ - तैत्तिरीयोपनिषत् ३-६-२

सा एषा भार्गवी वारुणी विद्या परमे आकाशे प्रतिष्ठिता । यः एतां विद्यां एवं वेद सः ब्रह्मणि प्रतितिष्ठति ॥

भृगुर्नाम शिष्यः वरुणात् सद्गुरोः ब्रह्मविद्यां प्राप्तवान् । अन्नमय- प्राणमय – मनोमय- विज्ञानमय- आनन्दमयाख्यान्
पञ्चापि कोशान् अतीतं तत्त्वमेव हि परब्रह्मतत्त्वम् । अस्यैव तत्त्वस्य 'आनन्दः' इत्यपि नाम । पञ्चानामपि कोशानाम्
आत्मत्वेन स्थितम्, पञ्चभ्योऽपि कोशेभ्यः विलक्षणं ब्रह्मतत्त्वं भृगुमहर्षिः ज्ञातवान् खलु, अतः अस्याः विद्यायाः
'भार्गवी विद्या' इति नाम आगतम् ॥

इमां विद्यां वरुणः उपदिष्टवान् इति एषा 'वारुणी विद्या' इति प्रसिद्धा अभवत् । एषा विद्या परमात्मविद्या, इयमेव
ब्रह्मविद्या च । हृदयान्तर्वर्तिनः आत्मनो विद्या 'हार्दविद्या' इति च कथ्यते । भृगुमहर्षिः इमां विद्यां प्राप्य कृतकृत्योऽभवत्,
यः कश्चित् इदं ब्रह्म आत्मत्वेन जानीयात् सः ब्रह्मणि प्रतिष्ठितो भवति ॥

"https://sa.wikiquote.org/w/index.php?title=सैषा_भार्गवी_वारुणी...&oldid=16420" इत्यस्माद् प्रतिप्राप्तम्