सोपानांरोहणन्यायः

विकिसूक्तिः तः

यथा मनुष्यःएकैकं सोपानम् अधिरोहति पूर्वस्मिन् सोपाने एकं पदं निधाय अपरस्मिन् अपरं निदधाति एवं स्वात्मभूते अपि ब्रह्मणि स्थिरनिष्ठां प्रेप्सुः क्रमेण निष्ठां प्राप्नुयात् । उत्तरपदे प्राप्ते पूर्वपदं स्वयं बाधितं भूत्वा प्रपञ्चोपशमः भवति इति भावः । (सा. ४४)

"https://sa.wikiquote.org/w/index.php?title=सोपानांरोहणन्यायः&oldid=11330" इत्यस्माद् प्रतिप्राप्तम्