स्मृतिसूक्तयः(पापम्)

विकिसूक्तिः तः

<poem> १. कृत्वा पापं न गूहेत

गुह्यमानं विवर्द्धते
पराशरस्मृतिः, ८/६

२. कृत्वा पापं हि संतप्य

तस्मात्पापात् प्रमुच्यते ।
मनुस्मृतिः ११/२३०

३. ख्यापनेन तु तापेन

प्रायः पापं प्रणश्यति ।
वृद्धगौतमस्मृतिः, २/३८

४. अर्श आद्या नृणां रोगा

अति पापाद् भवन्ति हि ।
शातातपस्मृतिः, अध्यायः १, श्लोकः १०
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः(पापम्)&oldid=7789" इत्यस्माद् प्रतिप्राप्तम्