स्मृतिसूक्तयः(मोक्षः)
दिखावट
<poem> १. अज्ञाते भगवत्तत्त्वे
- दुर्लभा परमा गतिः ।
- जयाख्यसंहिता १/३८
२. अरण्यनित्यस्य जितेन्द्रियस्य
- सर्वेन्द्रियप्रीतिनिवर्तकस्य ।
- अध्यात्मचिन्तागतमानसस्य
- ध्रुवा ह्यनावृत्तिरुपेक्षकस्य ॥
- वसिष्ठस्मृतिः, श्लोकः २४५
३. गुरुशुश्रूषया त्वेवं
- ब्रह्मलोकं समश्नुते ।
- मनुस्मृतिः,२/२३३