स्मृतिसूक्तयः(राजधर्मः)

विकिसूक्तिः तः

<poem> १. दुष्टस्य दण्डः सुजनस्य पूजा

न्यायेन कोशस्य च समप्रवृद्धिः ।
अपक्षपातोऽर्थिषु राष्ट्ररक्षा
पञ्चैव यज्ञाः कथिता नृपाणाम् ॥
अत्रिसंहिता, श्लोकः २८

२. नोपेक्षेत क्षणमपि

राजा साहसिकं नरम् ।
मनुस्मृतिः ८/३४४

३. न्यायेन दण्डनं राज्ञः

स्वर्गकीर्तिकरं भवेत् ।
वृद्धहारीतस्मृतिः ७/ १९३

४. मन्त्रिणो यत्र सभ्याश्च

वैद्याश्च प्रियवादिनः ।
राज्याद् धर्मात्सुखात्तत्र
क्षिप्रं हीयेत पार्थिवः ॥
कात्यायनस्मृतिः, श्लोकः १२

५. यत्र धर्मो ह्यधर्मेणा

सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां
हतास्तत्र सभासदः ॥
कात्यायनस्मृतिः, श्लोकः ७३