स्मृतिसूक्तयः(वेदः)

विकिसूक्तिः तः

<poem> १. इतिहासपुराणाभ्यां

वेदं समुपबृंहयेत् ।
वशिष्ठस्मृतिः नित्याचारप्रदीपः भागः २, पृ.११

२. बिभेत्यल्पश्रुताद्वेदो

मामयं प्रहरिष्यति ॥
वशिष्ठस्मृतिः नित्याचारप्रदीपः भागः २, पृ.११

३. नास्ति वेदात्परं शास्त्रम् ।

अत्रिसंहिताः, श्लोकः १५१

४. यथा जातबलो बह्नि –

र्दहत्यार्द्रानपि द्रुमान् ।
तथा दहति वेदज्ञः
कर्मजं दोषमात्मनः ॥
मनुस्मृतिः १२/१०१

५. वेदप्रदानाचार्यं पितरं परिचक्षते ।

मनुस्मृतिः, २/ १४६

६. वेद एव द्विजातीनां

निःश्रेयसकरः परः ।
याज्ञवल्क्यस्मृतिः , नित्याचारप्रदीपः, द्वितीयभागः, पृ.३

७. वेदविप्लावनात् तेन

वरं मौनं समाश्रितम् ।
लघुव्यासस्मृतिः, नित्याचारप्रदीपः, द्वितीयभागः पृ.९
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः(वेदः)&oldid=7875" इत्यस्माद् प्रतिप्राप्तम्