स्मृतिसूक्तयः(व्यवहारनीतिः)

विकिसूक्तिः तः

<poem> १. ॠणं लेख्यकृतं देयम् ।

याज्ञवल्क्यस्मृतिः, व्यवहाराध्यायः, श्लोकः ९०

२. कर्त्तव्यं वचनं सर्वैः ।

याज्ञवल्क्यस्मृतिः, व्यवहाराध्यायः, श्लोकः १८८

३. पूर्वपक्षेऽधरीभूते

भवन्त्युत्तरवादिनः ।
याज्ञवल्क्यस्मृतिः, व्यवहाराध्यायः, श्लोकः १७

४. स्मृत्योर्विरोधे न्यायस्तु

बलवान् व्यवहारतः ।
याज्ञवल्क्यस्मृतिः, व्यवहाराध्यायः श्लोकः २१