स्मृतिसूक्तयः (अन्योक्तिः)
<poem> १. अनाथानां बाले किमिव विपरीतं न भवति । - शार्ङ्गधरपद्धतिः, श्लोकः ३४३८
२. उदितवति द्विजराजे कस्य न हृदये मुदः पदं दधति । - शार्ङ्गधरपद्धतिः, श्लोकः ११४१
३. उद्यन्त्वमूनि सुबहूनि महामहांसि चन्द्रोऽप्यलं महीमण्डलमण्डनाय । सूर्यादृते तदुदेति न चास्तमेति । येनोदितेन दिनमस्तमितेन रात्रिः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७४१
४. एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् । यद्येकस्त्वरितं यात - स्तत्र का परिदेवना ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ४१३६
५. एकस्य तस्य मन्ये धन्यामभ्युन्नतिं जलधरस्य । विश्वं सशैलकानन- माननमवलोकते यस्य ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७६५
६. एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः । यः सकललघिमकारणमुदरं न बिभर्ति दुष्पूरम् ॥ - शार्ङ्गधरपद्धतिः, श्लोकः २५८
७. कल्पद्रुमोऽपि कालेन भवेद्यदि फलप्रदः । को विशॆषस्तदा तस्य वन्यैरन्यैर्महीरुहैः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ९८७
८. कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः । न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १५८
९. किं पुष्पैः किं फलैस्तस्य करीरस्य दुरात्मनः । येन वृद्धिं समासाद्य न कृतः पत्रसङ्ग्रहः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १०४९
१०. तृषां धरायाः शमयत्यशेषां यः सोऽम्बुदो गर्जति गर्जतूच्चैः । यस्त्वेष कस्यापि न हन्ति तृष्णां स किं वृथा गर्जति निस्त्रपोऽब्धिः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १०८८
११. धिग्वारिदं परिहृतान्यजलाशयस्य यच्चातकस्य कुरुते न तृषाप्रशान्तिम् । धिक्चातकं तमपि योऽर्थतयास्तलज्ज - स्तं तादृशं च यदुपैति पिपासितोऽपि ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ८६५
१२. न कोकिलानामिव मञ्जुकूजितं न लब्धलास्यानि गतानि हंसवत् । न बर्हिणानामिव चित्रपक्षता- गुणस्तथाप्यस्ति बके बलव्रतम् ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ८९२
९३. न च गन्धवहेन चुम्बिता न च पीता मधुपेन मल्लिका पिहितैव कठोरशाखया परिणामस्य जगाम गोचरम् ॥ - शार्ङ्गधरपद्धतिः, श्लोकः१०१०
१४. न तादृक्कर्पूरे न च मलयजे नो मृगमदे फले वा पुष्पे वा तव मिलति यादृक् परिमलः । परं त्वेको दोषस्त्वयि खलु रसाले यदधिकः पिके वा काके वा लघुगुरुविशेषं न मनुषे ॥ - शार्ङगधरपद्धतिः, श्लोकः १०१६
१५. नद्यो नीचगता दुरापपयसः कूपाः पयोराशयः क्षारा दुष्टबकोट संकटतटोद्देशास्तडागादयः । इत्थं भूतल आकलय्य सकलानम्भो निवेशानिति त्वां भो मानस संस्मरन्पुनरसौ हंसः समस्यागतः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ८१४
१६. नयनमसि जनार्दनस्य शम्भो- र्मुकुटमणिः सुदृशां त्वमादिदेवः । त्यजसि न मृगमात्रमेकमिन्दो चिरमिति येन कलंकिनं वदन्ति ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७५५
१७. नास्य भारग्रहे शक्ति- र्न च वाहगुणः क्वचित् । देवागारे बलीवर्द- स्तथाप्यश्नाति भोजनम् ॥ - शार्ङ्धरपद्धतिः, श्लोकः ९६१
१८.० निजकरनिकरसम्मृद्धया धवलय भुवनानि पार्वण शशांक । सुचिरं हन्त न सहते हतविधिरिह सुस्थितं कमपि ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७५२
१९. निमीलनाय पद्माना मुदयायाल्पतेजसाम् । तमसामवकाशाय व्रजत्यस्तमसौ रविः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७४३
२०. निम्ब किं बहुनोक्तेन निष्फलानि फलानि ते । यानि संजातपाकानि काका निः शेषयन्त्यमी ॥ - शार्ङ्गधरपद्धतिः श्लोकः १०४०
२१. नीरसान्यपि रोचन्ते कार्पासस्य फलानि मे । तेषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ - शार्ङ्घरपद्धतिः, श्लोकः २९४
२२. नैताः स्वयमुपभोक्ष्यसि मोक्ष्यसि जलदोषरादिषु क्वापि । तत्किं तत्र न मुञ्चसि मुक्ता भुक्ता भवन्ति यत्रापः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७८८
२३. पंकजजलेषु वासः प्रीतिर्मधुपेषु कण्टकैः संगः । यद्यपि तदपि तवैतच्चित्रं मित्रोदये हर्षः ॥ - शार्ङ्गधरपद्धतिः श्लोकः ९९
२४. परिमल सुरभित नभसो बहवः कनकाद्रिपरिसरे तरवः । तदपि सुराणां चेतसि निवसितमिव पारिजातेन ॥ - शार्ङ्गधरपद्धतिः, श्लोकः९९०
२५. पिब पयः प्रसर क्षितिपान्तिकं कलय काञ्चन काञ्चनश्रृंखलाम् । इदमवद्यतमं हि यदीहस भषक सम्प्रति केसरिणस्तुलाम् ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १२११
२६. पीतं यत्र हिमं पयः कवलिता यस्मिन् मृणालांकुरा
स्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः । धिक्तस्यैव जलानि पंकिलयतः पाथोजिनीं मथ्नतो मूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ९२१
२७. प्रावृषेण्यस्य मालिन्यं को दोषोऽभीष्टवर्षिणः । शारदाभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७६८
२८. फलं दूरतरेऽप्यास्तां पुष्णासि कुसुमैर्जनान् । इतरे तरवो मन्ये करीर तव किंकराः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १०४८
२९. फुल्लेषु यः कमलिनी कमलोदरेषु आम्रेषु यो विलसितः कलिकान्तरस्थः । पश्याद्य तस्य मधुपस्य शरद्व्यपाये कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ८२५
३०. बन्धनस्थो हि मातङ्गः सहस्त्रभरणक्षमः अपि स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १२०९
३१. मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति चेत् । कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १२०७
३२. शुकमुकुलितजिह्वः स्थीयतां किं वचोभिः तव वचनविनोदे नादरः पामराणाम् । - शार्ङ्गधरपद्धतिः, श्लोकः ८७८