स्मृतिसूक्तयः (अन्योक्तिः)
१. अनाथानां बाले किमिव
विपरीतं न भवति । - शार्ङ्गधरपद्धतिः, श्लोकः ३४३८
२. उदितवति द्विजराजे
कस्य न हृदये मुदः पदं दधति । - शार्ङ्गधरपद्धतिः, श्लोकः ११४१
३. उद्यन्त्वमूनि सुबहूनि महामहांसि
चन्द्रोऽप्यलं महीमण्डलमण्डनाय ।
सूर्यादृते तदुदेति न चास्तमेति ।
येनोदितेन दिनमस्तमितेन रात्रिः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७४१
४. एकसार्थप्रयातानां
सर्वेषां तत्र गामिनाम् ।
यद्येकस्त्वरितं यात -
स्तत्र का परिदेवना ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ४१३६
५. एकस्य तस्य मन्ये
धन्यामभ्युन्नतिं जलधरस्य ।
विश्वं सशैलकानन-
माननमवलोकते यस्य ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७६५
६. एकः स एव जीवति
हृदयविहीनोऽपि सहृदयो राहुः ।
यः सकललघिमकारणमुदरं
न बिभर्ति दुष्पूरम् ॥ - शार्ङ्गधरपद्धतिः, श्लोकः २५८
७. कल्पद्रुमोऽपि कालेन
भवेद्यदि फलप्रदः ।
को विशॆषस्तदा तस्य
वन्यैरन्यैर्महीरुहैः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ९८७
८. कवयः परितुष्यन्ति
नेतरे कविसूक्तिभिः ।
न ह्यकूपारवत्कूपा
वर्धन्ते विधुकान्तिभिः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १५८
९. किं पुष्पैः किं फलैस्तस्य
करीरस्य दुरात्मनः ।
येन वृद्धिं समासाद्य
न कृतः पत्रसङ्ग्रहः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १०४९
१०. तृषां धरायाः शमयत्यशेषां
यः सोऽम्बुदो गर्जति गर्जतूच्चैः ।
यस्त्वेष कस्यापि न हन्ति तृष्णां
स किं वृथा गर्जति निस्त्रपोऽब्धिः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १०८८
११. धिग्वारिदं परिहृतान्यजलाशयस्य
यच्चातकस्य कुरुते न तृषाप्रशान्तिम् ।
धिक्चातकं तमपि योऽर्थतयास्तलज्ज -
स्तं तादृशं च यदुपैति पिपासितोऽपि ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ८६५
१२. न कोकिलानामिव मञ्जुकूजितं
न लब्धलास्यानि गतानि हंसवत् ।
न बर्हिणानामिव चित्रपक्षता-
गुणस्तथाप्यस्ति बके बलव्रतम् ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ८९२
९३. न च गन्धवहेन चुम्बिता
न च पीता मधुपेन मल्लिका
पिहितैव कठोरशाखया
परिणामस्य जगाम गोचरम् ॥ - शार्ङ्गधरपद्धतिः, श्लोकः१०१०
१४. न तादृक्कर्पूरे न च मलयजे नो मृगमदे
फले वा पुष्पे वा तव मिलति यादृक् परिमलः ।
परं त्वेको दोषस्त्वयि खलु रसाले यदधिकः
पिके वा काके वा लघुगुरुविशेषं न मनुषे ॥ - शार्ङगधरपद्धतिः, श्लोकः १०१६
१५. नद्यो नीचगता दुरापपयसः कूपाः पयोराशयः
क्षारा दुष्टबकोट संकटतटोद्देशास्तडागादयः ।
इत्थं भूतल आकलय्य सकलानम्भो निवेशानिति
त्वां भो मानस संस्मरन्पुनरसौ हंसः समस्यागतः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ८१४
१६. नयनमसि जनार्दनस्य शम्भो-
र्मुकुटमणिः सुदृशां त्वमादिदेवः ।
त्यजसि न मृगमात्रमेकमिन्दो
चिरमिति येन कलंकिनं वदन्ति ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७५५
१७. नास्य भारग्रहे शक्ति-
र्न च वाहगुणः क्वचित् ।
देवागारे बलीवर्द-
स्तथाप्यश्नाति भोजनम् ॥ - शार्ङ्धरपद्धतिः, श्लोकः ९६१
१८. निजकरनिकरसम्मृद्धया धवलय
भुवनानि पार्वण शशांक ।
सुचिरं हन्त न सहते
हतविधिरिह सुस्थितं कमपि ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७५२
१९. निमीलनाय पद्माना
मुदयायाल्पतेजसाम् ।
तमसामवकाशाय
व्रजत्यस्तमसौ रविः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७४३
२०. निम्ब किं बहुनोक्तेन
निष्फलानि फलानि ते ।
यानि संजातपाकानि
काका निः शेषयन्त्यमी ॥ - शार्ङ्गधरपद्धतिः श्लोकः १०४०
२१. नीरसान्यपि रोचन्ते
कार्पासस्य फलानि मे ।
तेषां गुणमयं जन्म
परेषां गुह्यगुप्तये ॥ - शार्ङ्घरपद्धतिः, श्लोकः २९४
२२. नैताः स्वयमुपभोक्ष्यसि
मोक्ष्यसि जलदोषरादिषु क्वापि ।
तत्किं तत्र न मुञ्चसि
मुक्ता भुक्ता भवन्ति यत्रापः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७८८
२३. पंकजजलेषु वासः
प्रीतिर्मधुपेषु कण्टकैः संगः ।
यद्यपि तदपि तवैतच्चित्रं
मित्रोदये हर्षः ॥ - शार्ङ्गधरपद्धतिः श्लोकः ९९
२४. परिमल सुरभित नभसो
बहवः कनकाद्रिपरिसरे तरवः ।
तदपि सुराणां चेतसि
निवसितमिव पारिजातेन ॥ - शार्ङ्गधरपद्धतिः, श्लोकः९९०
२५. पिब पयः प्रसर क्षितिपान्तिकं
कलय काञ्चन काञ्चनश्रृंखलाम् ।
इदमवद्यतमं हि यदीहस
भषक सम्प्रति केसरिणस्तुलाम् ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १२११
२६. पीतं यत्र हिमं पयः कवलिता यस्मिन् मृणालांकुरा
स्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः ।
धिक्तस्यैव जलानि पंकिलयतः पाथोजिनीं मथ्नतो
मूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ९२१
२७. प्रावृषेण्यस्य मालिन्यं
को दोषोऽभीष्टवर्षिणः ।
शारदाभ्रस्य शुभ्रत्वं
वद कुत्रोपयुज्यते ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ७६८
२८. फलं दूरतरेऽप्यास्तां
पुष्णासि कुसुमैर्जनान् ।
इतरे तरवो मन्ये
करीर तव किंकराः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १०४८
२९. फुल्लेषु यः कमलिनी कमलोदरेषु
आम्रेषु यो विलसितः कलिकान्तरस्थः ।
पश्याद्य तस्य मधुपस्य शरद्व्यपाये
कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ८२५
३०. बन्धनस्थो हि मातङ्गः
सहस्त्रभरणक्षमः
अपि स्वच्छन्दचारी श्वा
स्वोदरेणापि दुःखितः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १२०९
३१. मलोत्सर्गं गजेन्द्रस्य
मूर्ध्नि काकः करोति चेत् ।
कुलानुरूपं तत्तस्य
यो गजो गज एव सः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १२०७
३२. शुकमुकुलितजिह्वः स्थीयतां किं वचोभिः
तव वचनविनोदे नादरः पामराणाम् । - शार्ङ्गधरपद्धतिः, श्लोकः ८७८