स्मृतिसूक्तयः (इन्द्रियसंयमः)

विकिसूक्तिः तः

<poem> १. इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः । - मनुस्मृतिः, ४/ १६

२. इन्द्रियाणां विचरतां विषयेष्वपहारिषु । संयमे यत्नमातिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥ - मनुस्मृतिः, २/८८

३. जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ - मनुस्मृतिः, ७/४४

४. लोका वशीकृतास्तेन येन ह्यात्मा वशीकृता । - दक्षस्मृतिः , ७/१