स्मृतिसूक्तयः (क्षमा)
दिखावट
<poem> १. एकः क्षमावतां दोषो
- द्वितीयो नोपपद्यते
- यदेनं क्षमया युक्तम्
- अशक्तं मन्यते जनः ॥ - आपस्तम्बस्मृतिः १०/५
२. क्षमा गुणो हि जन्तूनाम् । - आपस्तम्बस्मृतिः १०/५
३. क्षान्त्या शुद्धयन्ति विद्वांसः । - मनुस्मृतिः, ५/१०७
४. क्षमा जयति न क्रोधः । - वृद्धगौतमस्मृतिः, ८/ ११८
५. क्षमावान् पुरुषो भवेत् । - वृद्धगौतमस्मृतिः ८/ ११८
६. क्षमा दमः क्षमा दानं
- क्षमा सत्यं क्षमा तपः ।
- क्षमाऽहिंसा क्षमा धर्मः
- क्षमा चेन्द्रियनिग्रहः ॥ - वृद्धगौतमस्मृतिः २०/२०