स्मृतिसूक्तयः (गृहस्थः)

विकिसूक्तिः तः

<poem>

१. अदृष्टपूर्वमज्ञात-

मतिथिं प्राप्तमर्चयेत् ।
स्वागतासनन्दानेन
प्रत्युत्थानेन चाम्बुना ॥ - लघुहारीतस्मृतिः ४/ ५६

२. अनुकूलकलत्रो यः

स्वर्गस्तस्य इहैव हि ॥ - दक्षस्मृतिः ४/५

३. आश्रमेषु तु सर्वेषु प्रवरः सुलभो गृही । - मार्कण्डेयस्मृतिः पृ० ११

४. गर्भिण्यातुरभृत्येषु

बालवृद्धातुरादिषु ।
बुभुक्षितेषु भुञ्जानो
गृहस्थोऽश्नाति किल्विषम् ॥ - व्यासस्मृतिः, ३/ ४५

५. गृहवासः सुखार्थो हि

पत्नीमूलं च तत्सुखम् । - दक्षस्मृतिः ४/७

६. गृहस्थ उच्यते श्रेष्ठः

स त्रीनेतान् बिभर्ति हि । - मनुस्मृतिः ६/८९

७. गृहस्थ एव यजते

गहस्थस्तप्यते तपः ।
ददाति च गृहस्थश्च
तस्माच्छ्रेयो गृहाश्रमी ॥ - शंखस्मृतिः ५/६

८. गृहाश्रमात्परो धर्मो

नास्ति नास्ति पुनः पुनः । - व्यासस्मृतिः ४/२

९. गृहाश्रमात्परं नास्ति

यदि भार्या वशानुगा । - दक्षस्मृतिः ४/१

१०. गोभिर्न तुल्यं धनमस्ति किञ्चित् । - बृहत्पराशरस्मृतिः ५/१०

११. चतुर्ण्णामाश्रमाणां तु

गृहस्थस्तु विशिष्यते । - वशिष्ठस्मृतिः श्लोकः २३१

१२. जीवतो वाक्यकरणात्

क्षयाहे भूरि भोजनात् ।
गयायां पिण्डदानाच्च
त्रिभिः पुत्रस्य पुत्रता ॥ - बृहत्पराशरस्मृतिः ६/ १९६

१३. तृणावन्मन्यते नारी

वृद्धभावे स्वकं पतिम् । - दक्षस्मृतिः ४/११

१४. दम्पती विवदेयातां

नाज्ञातिषु न राजनि । - व्यवहारप्रकाशः , पृ. ५०

१५. द्वाविमौ पुरुषौ लोके

शिरः शूलकरावुभौ ।
गृहस्थश्च निरारम्भो
यतिश्च सपरिग्रहः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १५४९

१६. धर्मपत्नी समाख्याता

निर्दोषा यदि सा भवेत् । - दक्षस्मृतिः, ४/ १६

१७. न गृहं गृहमित्याहु

र्गृहिणी गृहमुच्यते ।
गृहे तिष्ठति सा यावत्
तावत्तीर्थसमं गृहम् ॥ - प्रजापतिस्मृतिः श्लोकः ५५

१८. न गृहेण गृहस्थः स्याद्

भार्यया कथ्यते गृही । - बृहत्पराशरस्मृतिः, ६/७१

१९. न यज्ञैर्दक्षिणावद्भि-

र्वह्नि शुश्रूषया तथा ।
गृही स्वर्गमवाप्नोति
यथा चातिथिपूजनात् ॥ - शंखस्मृतिः ५/१३

२०. न हि भिक्षुकृतान् दोषान्

वैश्वदेवो व्यपोहति । - लघुहारीतस्मृतिः

२१. प्रतिकूलकलत्रस्य

नरको नात्र संशयः । - दक्षस्मृतिः, ४/५

२२. प्रथमा धर्मपत्नी तु

द्वितीया रतिवर्धिनी ॥ - दक्षस्मृतिः ४/१५

२३. पुत्रस्यापि तु पुत्रत्वं

यत्त्राति नरकार्णवात् । - बृहत्पराशरस्मृतिः, ६/ १९०

२४. ब्रह्मचारी गृहस्थो वा

वानप्रस्थो यतिस्तथा ।
आत्मज्ञानेन मुच्यन्ते
यत्र तत्राश्रमे वसन् ॥ - बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/४४

२५. ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् । - विष्णुस्मृतिः अध्यायः ५९,पृ० ९७

२६. भर्तुः प्रीतिकरा या तु

भार्या सा चेतरा जरा । - दक्षस्मृतिः, ४/ १३

२७. यन्न वेदध्वनिश्रान्तं

न च गोभिरलंकृतम् ।
यन्न बालैः परिवृतं
श्मशानमिव तद्गृहम् । - अत्रिसंहिता, श्लोकः ३१३

२८. यथा मातरमाश्रित्य

सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थमाश्रित्य
सर्वे जीवन्ति भिक्षवः ॥ - वशिष्ठस्मृतिः, श्लोकः २३३

२९. यथा वायुं समाश्रित्य

वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य
वर्तन्ते सर्व आश्रमाः ॥ - वैदिकमनुस्मृतिः, ३/ ५३

३०. शिष्यो भार्या शिशुर्भ्राता

पुत्रो दासः समाश्रितः ।
यस्यैतानि विनीतानि
तस्य लोके हि गौरवम् ॥ - दक्षस्मृतिः, ४/ १४

३१. सर्वेऽपि पात्रतां यान्ति, भक्तदानाय गेहिनः ।

मार्कण्डेयस्मृतिः पृ० ५९

३२. सा पत्नी या विनीता स्यात्

चित्तज्ञा वशवर्तिनी । - दक्षस्मृतिः, ४/७

३३. स्वकर्मणामनुष्ठानात्

सम्यगात्मनि दर्शनात् ।
वेदान्तानां परिज्ञानात्
गृहस्थोऽपि हि मुच्यते ॥ - बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/४५

३४. स्वदारे यस्य सन्तोषः

परदारनिवर्तनम् ।
अपवादोऽपि नो यस्य
तस्य तीर्थफलं गृहे ॥ - व्यासस्मृतिः ४/४