स्मृतिसूक्तयः (गृहस्थः)
१. अदृष्टपूर्वमज्ञात-
मतिथिं प्राप्तमर्चयेत् ।
स्वागतासनन्दानेन
प्रत्युत्थानेन चाम्बुना ॥ - लघुहारीतस्मृतिः ४/ ५६
२. अनुकूलकलत्रो यः
स्वर्गस्तस्य इहैव हि ॥ - दक्षस्मृतिः ४/५
३. आश्रमेषु तु सर्वेषु प्रवरः सुलभो गृही । - मार्कण्डेयस्मृतिः पृ० ११
४. गर्भिण्यातुरभृत्येषु
बालवृद्धातुरादिषु ।
बुभुक्षितेषु भुञ्जानो
गृहस्थोऽश्नाति किल्विषम् ॥ - व्यासस्मृतिः, ३/ ४५
५. गृहवासः सुखार्थो हि
पत्नीमूलं च तत्सुखम् । - दक्षस्मृतिः ४/७
६. गृहस्थ उच्यते श्रेष्ठः
स त्रीनेतान् बिभर्ति हि । - मनुस्मृतिः ६/८९
७. गृहस्थ एव यजते
गहस्थस्तप्यते तपः ।
ददाति च गृहस्थश्च
तस्माच्छ्रेयो गृहाश्रमी ॥ - शंखस्मृतिः ५/६
८. गृहाश्रमात्परो धर्मो
नास्ति नास्ति पुनः पुनः । - व्यासस्मृतिः ४/२
९. गृहाश्रमात्परं नास्ति
यदि भार्या वशानुगा । - दक्षस्मृतिः ४/१
१०. गोभिर्न तुल्यं धनमस्ति किञ्चित् । - बृहत्पराशरस्मृतिः ५/१०
११. चतुर्ण्णामाश्रमाणां तु
गृहस्थस्तु विशिष्यते । - वशिष्ठस्मृतिः श्लोकः २३१
१२. जीवतो वाक्यकरणात्
क्षयाहे भूरि भोजनात् ।
गयायां पिण्डदानाच्च
त्रिभिः पुत्रस्य पुत्रता ॥ - बृहत्पराशरस्मृतिः ६/ १९६
१३. तृणावन्मन्यते नारी
वृद्धभावे स्वकं पतिम् । - दक्षस्मृतिः ४/११
१४. दम्पती विवदेयातां
नाज्ञातिषु न राजनि । - व्यवहारप्रकाशः , पृ. ५०
१५. द्वाविमौ पुरुषौ लोके
शिरः शूलकरावुभौ ।
गृहस्थश्च निरारम्भो
यतिश्च सपरिग्रहः ॥ - शार्ङ्गधरपद्धतिः, श्लोकः १५४९
१६. धर्मपत्नी समाख्याता
निर्दोषा यदि सा भवेत् । - दक्षस्मृतिः, ४/ १६
१७. न गृहं गृहमित्याहु
र्गृहिणी गृहमुच्यते ।
गृहे तिष्ठति सा यावत्
तावत्तीर्थसमं गृहम् ॥ - प्रजापतिस्मृतिः श्लोकः ५५
१८. न गृहेण गृहस्थः स्याद्
भार्यया कथ्यते गृही । - बृहत्पराशरस्मृतिः, ६/७१
१९. न यज्ञैर्दक्षिणावद्भि-
र्वह्नि शुश्रूषया तथा ।
गृही स्वर्गमवाप्नोति
यथा चातिथिपूजनात् ॥ - शंखस्मृतिः ५/१३
२०. न हि भिक्षुकृतान् दोषान्
वैश्वदेवो व्यपोहति । - लघुहारीतस्मृतिः
२१. प्रतिकूलकलत्रस्य
नरको नात्र संशयः । - दक्षस्मृतिः, ४/५
२२. प्रथमा धर्मपत्नी तु
द्वितीया रतिवर्धिनी ॥ - दक्षस्मृतिः ४/१५
२३. पुत्रस्यापि तु पुत्रत्वं
यत्त्राति नरकार्णवात् । - बृहत्पराशरस्मृतिः, ६/ १९०
२४. ब्रह्मचारी गृहस्थो वा
वानप्रस्थो यतिस्तथा ।
आत्मज्ञानेन मुच्यन्ते
यत्र तत्राश्रमे वसन् ॥ - बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/४४
२५. ब्रह्मचारी यतिर्भिक्षुर्जीवन्त्येते गृहाश्रमात् । - विष्णुस्मृतिः अध्यायः ५९,पृ० ९७
२६. भर्तुः प्रीतिकरा या तु
भार्या सा चेतरा जरा । - दक्षस्मृतिः, ४/ १३
२७. यन्न वेदध्वनिश्रान्तं
न च गोभिरलंकृतम् ।
यन्न बालैः परिवृतं
श्मशानमिव तद्गृहम् । - अत्रिसंहिता, श्लोकः ३१३
२८. यथा मातरमाश्रित्य
सर्वे जीवन्ति जन्तवः ।
एवं गृहस्थमाश्रित्य
सर्वे जीवन्ति भिक्षवः ॥ - वशिष्ठस्मृतिः, श्लोकः २३३
२९. यथा वायुं समाश्रित्य
वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य
वर्तन्ते सर्व आश्रमाः ॥ - वैदिकमनुस्मृतिः, ३/ ५३
३०. शिष्यो भार्या शिशुर्भ्राता
पुत्रो दासः समाश्रितः ।
यस्यैतानि विनीतानि
तस्य लोके हि गौरवम् ॥ - दक्षस्मृतिः, ४/ १४
३१. सर्वेऽपि पात्रतां यान्ति, भक्तदानाय गेहिनः ।
मार्कण्डेयस्मृतिः पृ० ५९
३२. सा पत्नी या विनीता स्यात्
चित्तज्ञा वशवर्तिनी । - दक्षस्मृतिः, ४/७
३३. स्वकर्मणामनुष्ठानात्
सम्यगात्मनि दर्शनात् ।
वेदान्तानां परिज्ञानात्
गृहस्थोऽपि हि मुच्यते ॥ - बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/४५
३४. स्वदारे यस्य सन्तोषः
परदारनिवर्तनम् ।
अपवादोऽपि नो यस्य
तस्य तीर्थफलं गृहे ॥ - व्यासस्मृतिः ४/४