स्मृतिसूक्तयः (ज्ञानम्)
दिखावट
<poem> १. अज्ञं हि बालमित्याहुः । - मनुस्मृतिः २/ १२८
२. अज्ञो भवति वै बालः । - मनुस्मृतिः २/१२८
३. ज्ञानं तीर्थं तपस्तीर्थं
- ब्रह्मतीर्थं सनातनम् ।
- क्षमा तु परमं तीर्थं
- सर्वतीर्थेषु सर्वदा ॥ - वृद्धगौतमस्मृतिः, २०/ १८
४. ज्ञानाम्बुना स्नाति च यो हि नित्यं
- किन्तस्य भूयः सलिलेन कृत्यम् ॥ - वृद्धगौतमस्मृतिः २०/२४
५. ज्ञानं प्रधानं न तु कर्महीनं
- कर्मप्रधानं न तु बुद्धिहीनम् ।
- तस्माद् द्वयोरेव भवेत् सिद्धि-
- र्न ह्येकपक्षो विहगः प्रयाति ॥ - बृहद्योगियाज्ञवल्क्यस्मृतिः ९/२९
६. देवशुश्रूषणं तीर्थं
- गुरुशुश्रूषणं तथा ।
- द्विजशुश्रूषणं तीर्थं
- तीर्थं ज्ञानस्य धारणम् ॥ - वृद्धगौतमस्मृतिः २०/१३
७. धरादानसमं नास्ति
- विद्यादानं ततोऽधिकम् । - मार्कण्डेयस्मृतिः पृ. ११६
८. विद्यावान् सर्वकामानां
- भाजनं पुरुषो भवेत् । - मार्कण्डेयस्मृतिः पृ. ११६
९. विद्या चक्षुरनुत्तमम् । - मार्कण्डेयस्मृतिः पृ. ११६
१०. वेदः साक्षाद्धरिः प्रोक्तः । - लौगाक्षिस्मृतिः ,पृ.३६३
११. सम्पदन्या ततो नास्ति
- मनुष्याणां महात्मनाम् ।
- देवानामपि सेन्द्राणां
- वेदार्थज्ञानतः परा ॥ - लौगाक्षिस्मृतिः, पृ, ३२६