सामग्री पर जाएँ

स्मृतिसूक्तयः (ब्राह्मणः)

विकिसूक्तिः तः

१. अग्रं वृक्षस्य राजानो

मूलं वृक्षस्य ब्राह्मणाः ।
तस्मान्मूलं न हिंसीया –
न्मूलादग्रं प्ररोहति ॥ - शंखलिखितस्मृतिः, श्लोकः २२

२. अनभ्यासेन वेदाना-

माचारस्य च वर्जनात्
आलस्यादन्नदोषाच्च
मृत्युर्विप्रान् जिघांसति ॥ - मनुस्मृतिः ५/४

३. अनूचानो मुनिः श्रेयान्

सर्वेषां च तपस्विनाम् । - अहिर्बुध्न्यसंहिता, ३३/ ६१

४. अब्रह्मण्यं हतं क्षात्रम् । - वशिष्ठस्मृतिः, १/१२

५. अविद्वांश्चैव विद्वांश्च

ब्राह्मणो दैवतं महत् । - मनुस्मृतिः, ९/ ३१७

६. असत्पथेन विप्रस्य गमनं हि विरुध्यते । - वृहद्योगियाज्ञवल्क्यस्मृतिः, १२/४३

७. आतुरो दुःखितो वापि

भयार्तो वा बुभुक्षितः ।
भुञ्जन्नविधिना विप्रः
प्रायश्चित्तीयते न च ॥ - वृद्धगौतमस्मृतिः १४/४

८. एतद्देशप्रसूतस्य

सकाशादग्रजन्मनः
स्वं स्वं चरित्रं शिक्षेरन्
पृथिव्यां सर्वमानवाः ॥ - मनुस्मृतिः,१/१३९

९. कलिधर्म परो न स्याद्

ब्राह्मणो वैदिकोत्तमः । - लौगाक्षिस्मृतिः,पृ. ३६४

१०. कर्तव्यं यत्नतः शौचं

शौचमूला द्विजातयः । - बृहत्पराशरस्मृतिः, ६/२१२

११. कैवल्यं ब्राह्मणस्यैव

ज्ञानेनैव न चान्यतः । - मार्कण्डेयस्मृतिः, पृ. १८

१२. गावो भूमिः कलत्रं च

ब्रह्मस्व हरणं तथा ।
यस्तु न त्रायते राजा
तमाहुर्ब्रह्मघातकम् ॥ - शंखलिखितस्मृतिः, श्लोकः २४

१३. ग्रामस्थानं यथा शून्यं

यथा कूपस्तु निर्जलः ।
यथा हुतमनग्नौ च
अमन्त्रो ब्राह्मणस्तथा ॥ - पराशरस्मृतिः, ८/२४

१४. जन्मना ब्राह्मणो ज्ञेयः

संस्काराद् द्विज उच्यते । - अत्रिसंहिता, श्लोकः १४०

१५. तेषां वाक्योदकेनैव

शुध्यन्ति मलिना जनाः । - शातातपस्मृतिः, श्लोकः ३०

१६. त्रिपदा चैव गायत्री

विज्ञेयं ब्राह्मणो मुखम् । - मनुस्मृतिः २/८१

१७. दहत्यग्निस्तेजसा च

सूर्यो दहति रश्मिना ।
राजा दहति दण्डेन
विप्रो दहति मन्युना ॥ - शंखलिखितस्मृतिः,श्लोकः ३०

१८. धर्मशास्त्ररथारूढा

वेदखङ्गधरा द्विजाः ।
क्रीडार्थमपि यद् ब्रूयुः
स धर्मः परमो मतः ॥ - बोधायनस्मृतिः १/१/१४

१९. नन्दन्त्योषधयः सर्वा

वेदज्ञे गृहमागते ।
वयमेतत्कुक्षिगता
यास्यामः परमां गतिम् ॥ - लौगाक्षिस्मृतिः,पृ,३६५

२०. नवमान्या द्विजाः प्राज्ञै-

र्देवरूपा हि ते द्विजाः । - वृद्धगौतमस्मृतिः, ४/३९

२१. न विद्यया केवलया

तपसा वापि पात्रता ।
पात्रमित्युच्यते विप्र-
स्तपो विद्या समन्वितः ॥ - वृद्धहारीतस्मृतिः, ४/ २२१

२२. न शारीरो ब्राह्मणस्य

दण्डो भवति कर्हिचित् । - व्यवहारनिर्णयः पृ. ४९५

२३. नाब्रह्म क्षत्रमृध्नोति

नाक्षत्रं ब्रह्म वर्धते ।
ब्रह्म क्षत्रं च सम्पृक्त-
मिह चामुत्र वर्धते ॥ - मनुस्मृतिः, ९/ ३२२

२४. नास्ति विप्रात् परं तीर्थं

न पुण्यं ब्राह्मणात्परम् ॥ - वृद्धगौतमस्मृतिः, ३/७८

२५. नित्यं योगरतो विद्वान्

समलोष्टाश्म कांचनः । - शंखस्मृतिः १४/८

२६. निवृत्तः पापकर्मभ्यः

प्रवृत्तः पुण्यकर्मसु ।
यो विप्रस्तस्य सिध्यन्ति ।
विना यत्नैरपि क्रियाः ॥ - बोधायनस्मृतिः, ४/७/१

२७. पन्था देयो ब्राह्मणाय

गवे राज्ञे ह्यचक्षुषे ।
वृद्धाय भारतप्ताय
गर्भिण्यै दुर्बलाय च । - बोधायनस्मृतिः,२/३/५७

२८. परद्रव्य परक्षेत्र

परदार पराङ्मुखान् ।
गृह्णीयात्सर्वकृत्येषु
ब्राह्मणान् ब्रह्मवादितः ॥ - मार्कण्डेयस्मृतिः, पृ. ५९ क्

२९. ब्रह्म चैव धनं येषां

को हिंस्यात्तान् जिजीविषुः । - मनुस्मृतिः, ९/ ३१६

३०. ब्राह्मणानां धनं वेदाः

ॠग्यजुः सामनामकाः । - लौगाक्षिस्मृतिः,पृ.३६४

३१. ब्राह्मणान्न परीक्षेत

दैवे कर्मणि धर्मवित् । - शंखस्मृतिः १४/१

३२. ब्राह्मणार्थे गवार्थे वा

यस्तु प्राणान् परित्यजेत् ।
मुच्यते ब्रह्महत्याद्यै-
र्गोप्ता गोब्राह्मणस्य च ॥ - पराशरस्मृतिः, ८/४२

३३. ब्राह्मणस्वं न हर्तव्यं

क्षत्रियेण कदाचन । - मनुस्मृतिः,११/८

३४. भूतानां प्राणिनः श्रेष्ठाः

प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सुः नराः श्रेष्ठाः
नरेषु ब्राह्मणाः स्मृताः ॥ - मनुस्मृतिः, १/९६

३५. मन्त्रार्थो ब्राह्मणमुखाद्

विज्ञेयो नान्यवर्त्मना । - मार्कण्डेयस्मृतिः,पृ.६०

३६. यथाऽन्नं मधुसर्पिभ्यां

संयुक्तं स्वादुतां व्रजेत् ।
एवं विद्या तपो योगै-
र्ब्राह्मणः पात्रतां व्रजेत् ॥ - बृहद्योगियाज्ञवल्क्यस्मृतिः, ११/ २४

३७. यथा काष्ठमयो हस्ती

यथा चर्ममयो मृगः ।
ब्राह्मणस्त्वनधीयान् –
स्त्रयस्ते नामधारकाः ॥ - पराशरस्मृतिः,८/ २४

३८. यथा सर्वास्ववस्थासु

पावको दैवतं महत् ।
तथा सर्वास्ववस्थासु
ब्राह्मणो दैवतं महत् ॥ - वृद्धगौतमस्मृतिः ३/६७

३९. यद् धनं यज्ञशीलानां

देवस्वं तद्विदुर्बुधाः । - मनुस्मृतिः ११/२०

४०. यस्तु प्रव्रजितो भूत्वा

पुनः सेवेत मैथुनम् ।
षष्टि वर्षसहस्त्राणि
विष्ठायां जायते कृमिः ॥ - लघुशातातपस्मृतिः,श्लोकः ६०

४१. युगे युगे तु ये धर्मा-

स्तेषु तेषु च ये द्विजाः ।
तेषां निन्दा न कर्त्तव्या
युगरूपा हि ते द्विजाः ॥ - पराशरस्मृतिः ११/५२

४२. येषामध्ययनं नास्ति

ये च केचिदनग्नयः ।
न कुलं श्रोत्रियं येषां
सर्वे ते शूद्रधर्मिणः ॥ - लघुशातातपस्मृतिः, श्लोकः ५१

४३. योऽनधीत्य द्विजो वेद-

मन्यत्र कुरुते श्रमम् ।
स जीवन्नेव शूद्रत्व –
माशु गच्छति सान्वयः ॥ - मनुस्मृतिः, २/ १४३

४४. श्रोत्रियेभ्यः परं नास्ति

दैवतं तारणं महत् । - वृद्धगौतमस्मृतिः, ७/ १३३

४५. लक्षणानि तु विप्रस्य

दमो दानं दयाऽपि च । - अत्रिसंहिता, श्लोकः ३३

४६. विद्या तपश्च योगश्च

ब्राह्मणस्यैव लक्षणम् । - मार्कण्डेयस्मृतिः,पृ.१४२

४७. विद्या विनय सम्पन्नः

पात्रभूतो द्विजोत्तमः । - बृहद्यमस्मृतिः, श्लोकः ३/४२

४८. विप्राणां ज्ञानतो ज्येष्ठ्यम् - मनुस्मृतिः, २/१३०

४९. वेदः कृत्स्नोऽधिगन्तव्यः

सरहस्यो द्विजन्मना ॥ - मनुस्मृतिः,२/१६५

५०. वेदाभ्यासो हि विप्रस्य

तपः परमिहोच्यते ॥ - मनुस्मृतिः,२/१४१

५१. शस्त्रं द्विजातिभिर्ग्राह्यं

धर्मो यत्रोपरुध्यते । - वैदिकमनुस्मृतिः,८/२१३

५२. शौचमूलो द्विजः स्मृतः । - दक्षस्मृतिः, ५/२

५३. श्रोत्रिया न पराधीनाः । - व्यासस्मृतिः, तृतीयखण्डः,पृ. १७४

५४. सन्ध्यां नोपासते यस्तु

ब्राह्मणस्तु विशेषतः ।
स जीवन्नेव शूद्रः स्या-
न्मृतः श्वा चैव जायते ॥ - दक्षस्मृतिः, २/२२

५५. सन्ध्यां नोपासते विप्राः

कथं ते ब्राह्मणाः स्मृताः । - बोधायनस्मृतिः, २/४/१९

५६. सम्मानाद् ब्राह्मणो नित्य-

मुद्विजेत विषादिव । - मनुस्मृतिः २/ १३७

५७. सर्वं वै ब्राह्मणोऽर्हति । - मनुस्मृतिः , १/१००

५८. सर्वेषामेव वै मान्यो

वेदविद् द्विज एव हि । - लघ्वाश्वलायनस्मृतिः, २२/२

५९. स्वयमेव ब्राह्मणो भुङ्क्ते

स्वं वस्ते स्वं ददाति च । - मनुस्मृतिः, १/१०१

६०. हिताय हि प्रवर्तन्ते

ब्राह्मणाः सततं सदा । - मार्कण्डेयस्मृतिः,पृ.२२

६१. चक्रात् तीक्ष्णतरो मन्युः । - शंखलिखितस्मृतिः, श्लोकः ३१

६२. दुर्लभो ब्राह्मणोत्तमः । - मार्कण्डेयस्मृतिः,पृ.१४४

६३. न विप्राः शस्त्रपाणयः । - वृद्धगौतमस्मृतिः, ३/६९

६४. नास्ति विप्रात् परा गतिः । - वृद्धगौतमस्मृतिः ३/७८

६५. प्राणसंकटे ब्राह्मणोऽपि शस्त्रमाददीत । - गौतमस्मृतिः, सप्तमोऽध्यायः

६६. मनो दाम्यं सदा द्विजैः । - बृहत्पराशरस्मृतिः, ६/२५३

६७. राजा सर्वस्येष्टे ब्राह्मणवर्जम् । - गौतमस्मृतिः, अध्यायः ११

६८. वयसा लघवोऽपि स्युर्वृद्धा धर्मविदो जनाः । - वृहत्पराशरस्मृतिः, ८/ ७१

६९. विप्रत्वमतिदुर्लभम् । - मार्कण्डेयस्मृतिः