स्मृतिसूक्तयः (वैराग्यम्)
१. अत्यन्तमलिनः कायो
नवच्छिद्रसमन्वितः । - दक्षस्मृतिः २/७
२. असत्सङ्गाद् गुणज्ञोऽपि
विषयासक्तमानसः ।
अकस्मात् प्रलयं याति
गीतरक्तो यथा मृगः ॥ - शार्ङ्गधरपद्धतिः श्लोकः ४१८९
३. आत्माधीनशरीराणां
स्वपतां निद्रया स्वया ।
कदन्नमपि मर्त्याना-
ममृतत्वाय कल्पते ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ३१८
४. इच्छानुरूपो विभवः
कदा कस्य भविष्यति । - व्यासस्मृतिः, ४/२३
५. इन्द्रियाणां जये शूरः । - व्यासस्मृतिः ४/६०
६. इन्द्रियाणां प्रसंगेन
दोषमृच्छत्यसंशयम् । - मनुस्मृतिः, २/ ६८
७. उदारस्य तृणं वित्तं
शूरस्य मरणं तृणम् ।
विरक्तस्य तृणं भार्या
निःस्पृहस्य तृणं जगत् ॥ - शार्ङ्गधरपद्धतिः श्लोकः ३८९
८. उपहरणं विभवानां
संहरणं सकलदुरितजालस्य । - शार्ङ्गधरपद्धतिः श्लोकः ९२
९. एकाकी विचरेन्नित्यम् । - विष्णुस्मृतिः, ४/१०
१०. एकेऽद्य प्रातरपरे
पश्चादन्ये पुनः परे ।
सर्वे निःसीम्नि संसारे
यान्ति कः केन शोच्यते ॥ - शार्ङ्गधरपद्धतिः श्लोकः ४१३७
११. एता यः प्रेक्षसे लक्ष्मी-
श्छत्रचामरचंचलाः
स्वप्न एष महाबुद्धे
दिनानि त्रीणि पंच वा ॥ - शार्ङ्गधरपद्धतिः श्लोकः ४११९
१२. कः प्रार्थ्यते मदनविह्वलया युवत्या । - शार्ङ्गधरपद्धतिः श्लोकः ५५५
१३. कृतकृत्याः प्रतीक्षन्ते
मृत्युं प्रियमिवातिथिम् । - वृद्धगौतमस्मृतिः ८/६
१४. गर्भवासे च जनने
बाल्ये वास्य कुतः सुखम् ।
अस्वतन्त्रस्येव परै-
र्यन्त्रितस्येव पक्षिणः ॥ - ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम्, योगपादः, श्लोकः ३३
१५. च्युता दन्ताः सिताः केशाः
दृङ्निरोधः पदे पदे ।
पतिसज्जमिमं देहं
तृष्णा साध्वी न मुञ्चति ॥ - शार्ङ्गधरपद्धतिः, श्लोकः ४२३
१६. जगदेतन्निराक्रन्दं
निस्सारकमनर्थकम् । - शंखस्मृतिः, ७/१०
१७. जितेन्द्रियस्य किं शौचैः । - बृहत्पराशरस्मृतिः, ६/२१८
१८. जीर्यन्ति जीर्यतः केशाः
दन्ताः जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्यन्ति
तृष्णैका निरुपद्रवाः ॥ - ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम्, योगपादः, पृ.६०९
१९. जीवन्ति जीविते यस्य
विप्रमित्राणि बान्धवाः ।
जीवितं सफलं तस्य
चात्मार्थे को न जीवति ॥ - व्यासस्मृतिः ४/२१
२०. त्यागाच्छान्तिरनुत्तमा । - बृहद्योगियाज्ञवल्क्यस्मृतिः, ९/१९८
२१. त्यागेनैवामृतत्वं हि
प्राप्तुं शक्यं मनीषिभिः । - ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, पृ.६१०
२२. त्वङ्मांसरक्तवाष्पाम्बु
पृथक् कृत्वा विलोचने ।
समालोकय रम्यं चेत्
किं मुधा परिमुह्यसि ॥ - श्रुतिसिद्धान्तसारसंग्रहः साधनप्रकरणं, श्लोकः ९३
२३. दरिद्रोऽर्थं ततो राज्यं
तथेन्द्रत्वं ततोऽक्षयम् ।
पदं वाञ्छति नान्तोऽस्ति
तस्मात्तृष्णां परित्यजेत् ॥ - व्यासस्मृतिः स्मृतिचन्द्रिका द्वितीयखण्डः,पृ. ४५९
२४. देहे चेत्प्रीयते कश्चित्
प्रीयते नरकेऽपि सः । - ईशानशिवगुरुदेवपद्धतिः, प्रथमपटलः योगपादम्, श्लोकः २४
२५. नहि प्रमाणं जन्तूना-
मुत्तरक्षण जीवने ।
तस्मादात्महितं नित्यं
चिन्तयन्नेव तच्चरेत् ॥ - पूर्वांगिरसस्मृतिः, श्लोकः ३१५
२६. नित्यं सन्निहितो मृत्युः
कर्तव्यो धर्मसंग्रहः । - व्यासस्मृतिः, ४/१९
२७. पतनान्ता समुच्छ्रयाः । - कात्यायनस्मृतिः २२/८
२८. परिष्वक्तो नरो नार्या
ह्लादमेति यथा युवा ।
तल्पस्थोऽपि सकामां तां
भावहीनो न कामयेत् ॥ - बृहत्पराशरस्मृतिः, १२/३५२
२९. पशवोऽपि हि जीवन्ति
केवलात्मोदरम्भराः ।
किं कायेन सुगुप्तेन
बलिना चिरजीविना ॥ - व्यासस्मृतिः, ४/२२
३०. फलं हि मोक्षो योगस्य । - ईशानशिवगुरुदेवपद्धतिः, योगपादः तृतीयपटलम्, श्लोकः ९४
३१. बलवानिन्द्रियग्रामो
विद्वान्समपि कर्षति । - मनुस्मृतिः,२/१९०
३२. मनसि च परितुष्टे
कोऽर्थवान् को दरिद्रः । - शार्ङ्गधरपद्धतिः श्लोकः ३०८
३३. मरणान्तं हि जीवितम् । - कात्यायनस्मृतिः, २२/८
३४. मानुष्ये कदलीस्तम्भे
निस्सारे सारमार्गणम् ।
यः करोति स सम्मूढो
जलबुद्बुद्सन्निभे ॥ - कात्यायनस्मृतिः, २२/५
३५. मृत्युकाले मतिर्या स्यात्
तां गतिं याति मानवः । - बृहत्पराशरस्मृतिः, १२/३५४
३६. मोक्षमार्गः परो योगः
साङ्गः साध्यो विपश्चिता । - ईशानशिवगुरुदेवपद्धतिः,पृ,६१०
३७. यतो यतो निवर्तते
ततस्ततः सुखी भवेत् ।
निवर्तनाद्धि सर्वतो
न वेत्ति दुःखमण्वपि ॥ - ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, श्लोकः ४४
३८. यत्पृथिव्यां ब्रीहियवं
हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तु यत् –
स्तां तृष्णां दूरतस्त्यजेत् ॥ - ईशानशिवगुरुदेवपद्धतिः योगपादः, प्रथमपटलम्,पृ,६०९
३९. यथा यथा निषेवन्ते
विषयान्विषयात्मकाः ।
तथा तथा कुशलता
तेषां तेषूपजायते ॥ - मनुस्मृतिः, १२/७३
४०. यदा भावेन भवति
सर्वभावेषु निः स्पृहः ।
तदा सुखमवाप्नोति
प्रेत्य चेह च शाश्वतम् ॥ - मनुस्मृतिः ६/ ८०
४१. यदि नाम न धर्माय
न कामाय न कीर्तये ।
यत्परित्यज्य गन्तव्यं
तद्धनं किं न दीयते ॥ - व्यासस्मृतिः ४/२०
४२. यद् यद् गृहे तन्मनसि
यत्र तत्रावतिष्ठतः ।
नाशव्ययादिभीत्या
क्व परिग्रहवतां सुखम् ॥ - ईशानशिवगुरुदेवपद्धतिः योगपादः, प्रथमपटलम्, श्लोकः ४३
४३. यद्वर्धयितुमिच्छन्ति
तच्छरीरमशाश्वतम् । - व्यासस्मृतिः ४/१८
४४. यावतः कुरुते जन्तुः
सम्बन्धान् मनसः प्रियान् ।
तावन्तोऽस्य निखन्यन्ते
हृदये शोकशङ्कवः ॥ - ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम्, श्लोकः ४२
४५. यौवनेऽनिष्ट संयोगा-
दिष्टलाभे वियोगतः ।
रागाद्याक्रान्तचित्तस्य
कुतः सौख्यं शरीरिणः ॥ - ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम् योगपादः, श्लोकः ३४
४६. यः कालाकालविद्विप्रो
नैनः स्पर्शी स कर्हिचित् । - बृहत्पराशरस्मृतिः, ६/९०
४७. वर्तमानं क्षणातीतं
सम्बन्धः कस्य केन वा । - शार्ङ्गधरपद्धतिः, श्लोकः ४१२६
४८. विषं विषयवैषम्यं
न विषं विषमुच्यते ।
जन्मान्तरघ्ना विषयाः
एक जन्महरं विषम् ॥ - श्रुतिसिद्धान्तसारसंग्रहः साधनप्रकरणं, श्लोकः १२५
४९. वेषलंघनमात्रेण
देही मोक्षं कथं व्रजेत् । - ईशानशिवगुरुदेवपद्धतिः योगपादः प्रथमपटलम् ,श्लोकः ४७
५०. व्रतानि यम धर्माश्च
सर्वे सङ्कल्पजाः स्मृताः । - मनुस्मृतिः २/३
५१. व्रणादेस्तु यथा पूय –
मूत्रादेर्निगमात् सुखम् ।
पापकण्डूतिसौख्यं वा
तत्तुल्यं सुरते सुखम् ॥ - ईशानशिवगुरुदेवपद्धतिः प्रथमपटलम् योगपादः, श्लोकः २७
५२. संयोगा विप्रयोगान्ताः । - कात्यायनस्मृतिः २२/८
५३. सततं स्रवतेऽमेध्यं
किं देहस्योच्यते शुभम् । - बृहत्पराशरस्मृतिः, १२/१८५
५४. सर्वस्त्विन्द्रियलौल्येन
संकटान्यवगाहते । - व्यासस्मृतिः स्मृतिचन्द्रिका द्वितीयखण्ड, पृ. ४५९
५५. सर्वे क्षयान्ता निचयाः । - कात्यायनस्मृतिः २२/८
५६. सौख्यं त्वगस्थिमांसादौ
कतरत्स्यान्मनोहरम् । - ईशानशिवगुरुदेवपद्धतिः, प्रथमपटलम् योगपादम्, श्लोकः २९
५७. हा कष्टं पुरुषस्य् जीर्णवयसः
पुत्रोऽप्यमित्रायते । - शार्ङ्गधरपद्धतिः, श्लोकः ४१६१
५८. हृदि सर्वं प्रतिष्ठितम् । - शंखस्मृतिः, ७/१५
५९. हृदिस्था देवताः सर्वाः । - शंखस्मृतिः