स्मृतिसूक्तयः (सत्यम्)

विकिसूक्तिः तः

<poem> १. अश्वमेधसहस्त्राद्धि

सत्यमेवातिरिच्यते ।
व्यवहारप्रकाशः पृ.१२२

२. इहैव तस्य देवत्वं

यस्य सत्ये स्थिता मतिः ।
मनुस्मृतिः परिशिष्टम्, श्लोकः ६२

३. रक्षेत्सत्यं समाहितः ।

याज्ञवल्क्यस्मृतिः, आचाराध्यायः, श्लोकः ३५२

४. सत्यं जयति नानृतम् ।

वृद्धगौतमस्मृतिः ८/११८

५. धर्मो वृथा यत्र न सत्यमस्ति

सत्यं न तद्यन्न हृदानुविद्धम् ।
बृहत्पराशरस्मृतिः ८/७३
"https://sa.wikiquote.org/w/index.php?title=स्मृतिसूक्तयः_(सत्यम्)&oldid=7898" इत्यस्माद् प्रतिप्राप्तम्