स्वजातिदुरतिक्रमन्यायः
दिखावट
एकदा एकः मुनिः गङ्गानद्याः तीरे अनुष्ठानमग्नः आसीत् । तदा श्येनपक्षिणः मुखात् प्रभ्रष्टः काचन मूषिका मुनेः अङ्के पतिता । जातदयः सः मुनिः तां मूषिकां सुन्दरकन्यां कृतवान् तस्याः पालनादिकं कृत्वा योग्ये वयसि तस्याः विवाहं कर्तुं योग्यं वरम् अन्वेष्टुम् आरब्धवान् । परन्तु कोऽपि वाः तस्यै न अरोचत् । अन्ते सः एकं मूषकं तस्याः पुरतः नीतवान् । तदा सा आनन्देन तम् वृतवती इति । एवं स्वजातिं कोऽपि उल्लङिघितुं न शक्नोति इति भावः । यथाः सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् । स्वजातिं मूषिका प्राप्ता स्वजातिर्दुरतिक्रमा ॥ (सा. ८०८)