स्वधीतस्य सुयुद्धस्य...

विकिसूक्तिः तः


सुभाषितम्

स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः ।
तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥

विदुरनीतिः ५२

svadhītasya suyuddhasya sukṛtasya ca karmaṇaḥ ।
tapasaśca sutaptasya tasyānte sukhamedhate ॥

पदच्छेदः

स्वधीतस्य, सुयुद्धस्य, सुकृतस्य, च, कर्मणः, तपसः, च, सुतप्तस्य, तस्य, अन्ते, सुखम्, एधते ॥


तात्पर्यम्

परिश्रमेण कृतम् अध्ययनं, सम्यक् आचरितं युद्धं, कृतानि उत्तमानि कार्याणि, दीर्घकालीनं तपश्च अन्ते अतिशयं सुखं यच्छन्ति ।


आङ्ग्लार्थः

Studies painstakingly done, battles rightly conducted, noble deeds done, and prolonged austerities will give you a lot of happiness in the end.