स्वप्नान्तं जागरितान्तं...

विकिसूक्तिः तः
Jump to navigation Jump to search

ज्ञात्वा विशोको भवति !

स्वप्नान्तं जागरितान्तं च उभौ येनानुपश्यति ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ - काठकोपनिषत् २-१-४

यस्य सान्निध्येन स्वप्नान्तं च जागरितान्तं च पश्यति मानवः तं महान्तं
विभुम् आत्मानं मत्वा धीरो न शोचति ।

“मत्वा धीरो न शोचति” इत्येषः सकलवेदान्तानां सन्देशसारः । ‘पल्लवी’त्वेन
(गीतस्य प्रथमा पङ्क्तित्वेन) इदं वाक्यं भवति । ज्ञात्वा धीरः, प्राप्य दीनः,
कृत्वा मन्दः – इत्यर्थः । ज्ञात्वा धीरो भवति । किं ज्ञात्वा ? आत्मानं ज्ञात्वा ।
आत्मनः ज्ञानं नाम किम् ? इति चेत् उच्यते ॥

आत्मा नाम जागरितं स्वप्नं सुषुप्तिं च प्रकाशयन् चिन्मात्रस्वरूपः । स्वयम् अविक्रियः
सन् विकारिणं सकलमपि प्रपञ्चं भासयन् आत्मैव अहमस्मीति जानन् धीरो भवति ॥

आत्मा महान्, आत्मा विभुः, आत्मा अविकारी । आत्मा जागरितं, स्वप्नं, सुषुप्तं च
साक्षित्वेन प्रकाशयति । एवंवित् नूनमपि धीर एव खलु ? एवंविदः शोकमोहौ किं स्तः ?
नैव । अनात्मभूतान् देहेन्द्रियादीन् आत्मत्वेन विजानतः अज्ञस्यैव हि सदा शोकमोह-
संसारबन्धनम्, न तु आत्मस्वरूपविदः ॥