स्वप्नो भूत्वा इमं...

विकिसूक्तिः तः

स्वप्नो भूत्वा इमं लोकमतिक्रामति मृत्यो रूपाणि । - बृहदारण्यकोपनिषत् ४-३-७

आत्मैव स्वप्नो भूत्वा तत्र इमं लोकं मृत्युरूपाणि च अतिक्रामति ।

जागरितात् आत्मा स्वप्नं प्रविशति । जागरितस्य सर्वान् शरीरेन्द्रियादीन् उपाधीन् जागरिते
एव विहाय आत्मा स्वयमेव स्वप्नो भवति । आत्मा एक एव सन्नपि स्वयमेव स्वप्नं निर्माय
स्वयमेव स्वप्नो भवति । यतो हि जागरितात् न कञ्चिदपि अल्पं पदार्थं स्वप्नं प्रति यद्यपि
न नयति, तथापि आत्मा स्वयमेव स्वमहिम्ना स्वप्नो भूत्वा तत्र स्वेष्टानि वस्तूनि सर्वाण्यपि
सृजति खलु ? न हि आत्मनः जाग्रतः स्वप्नस्य अथवा सुषुप्तेः सम्बन्धो विद्यते ॥

स्वप्नात् सुषुप्तं प्रविशन्नेव आत्मा सर्वाणि द्वैतवस्तूनि तत्रैव त्यक्त्वा स्वस्वरूपे वर्तते ।
सा सुषुप्तिरेव आत्मनः वासस्थानम् । तत्र आत्मा अविद्याकामकर्माणि अत्येति ।
क्रियाकारकफलानि च आत्मा सुषुप्तौ अत्येति । अत्र मृत्युर्नाम क्रियाकारकफलानि ।
देहेन्द्रियमनोबुद्धयो हि मृत्युः । एतानि आत्मा सुषुप्तौ अत्येति ॥

"https://sa.wikiquote.org/w/index.php?title=स्वप्नो_भूत्वा_इमं...&oldid=16533" इत्यस्माद् प्रतिप्राप्तम्