स्वभावो नोपदेशेन...

विकिसूक्तिः तः

सुभाषितम्

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

पञ्चतन्त्रम् १/११२

svabhāvo nopadeśena śakyate kartumanyathā ।
sutaptamapi pānīyaṃ punargacchati śītatām ॥

पदच्छेदः

स्वभावः, न, उपदेशेन, शक्यते, कर्तुम्, अन्यथा, सुतप्तम्, अपि, पानीयं, पुनः, गच्छति, शीतताम् ।


तात्पर्यम्

अन्येषु जनेषु परिवर्तनम् आनेतुम् ये इच्छन्ति ते सपदि उपदेशम् आरभन्ते । किन्तु उपदेशमात्रेण कस्यापि स्वभावस्य परिवर्तनं कर्तुं न शक्यते । स्वभावस्य परिवर्तनं तथा सुकरं न । यतः समीचीनतया उष्णीकृतमपि पानीयं स्वस्य स्वभावानुगुणं पुनः शीततां प्राप्नोति ।


आङ्ग्लार्थः

It is not possible to change a person’s nature by advising as the same one will revert to original nature in the end. No matter how heated the water is, it will cool down on its own after some time.

"https://sa.wikiquote.org/w/index.php?title=स्वभावो_नोपदेशेन...&oldid=17744" इत्यस्माद् प्रतिप्राप्तम्