स्वयं प्रणमतेऽल्पे...

विकिसूक्तिः तः

सुभाषितम्

स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥

svayaṃ praṇamate:'lpe:'pi paravāyāvupeyuṣi ।
nidarśanamasārāṇāṃ laghurbahutṛṇaṃ naraḥ ।।

पदच्छेदः

स्वयं, प्रणमते, अल्पे, अपि, परवायौ, उपेयुषि, निदर्शनं, असाराणां, लघुः, बहुतृणं, नरः ।


तात्पर्यम्

वायुः तृणानां शत्रुः अस्ति । अतः एव यदा अश्वः धावयन् आयाति, तदा तृणानि प्रणामं कुर्वन्ति । अयं साररहितानां नीचानां दृष्टान्तः अस्ति ।

"https://sa.wikiquote.org/w/index.php?title=स्वयं_प्रणमतेऽल्पे...&oldid=16801" इत्यस्माद् प्रतिप्राप्तम्