स्वल्पस्नायुवसावसेकमलिनं...

विकिसूक्तिः तः

सुभाषितम्

स्वल्पस्नायुवसावसेकमलिनं निर्मांसमप्यस्थिकं
श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥

Svalpasnāyu vasāvasekamalinaṃ nirmāṃsamapyasthikaṃ
śvā labdhvā paritoṣameti na tu tattasya kṣudhaḥ śāntaye ।
siṃho jambukamaṅkamāgatamapi tyaktvā nihanti dvipaṃ
sarvaḥ kṛcchragato:'pi vāñchati janaḥ sattvānurūpaṃ phalam ॥

पदच्छेदः

स्वल्पस्नायुवसावसेकमलिनं, निर्मांसम्, अपि, अस्थिकं, श्वा, लब्ध्वा, परितोषम्, एति, न, तु, तत्, तस्य, क्षुधः, शान्तये, सिंहः, जम्बुकम्, अङ्कम्, आगतम्, अपि, त्यक्त्वा, निहन्ति, द्विपं, सर्वः, कृच्छ्रागतः, अपि, वाञ्छति, जनः, सत्त्वानुरूपं, फलम् ।


तात्पर्यम्

शुनकः अल्परक्तेन मलिनं मांसरहितम् अस्थि लब्ध्वा सन्तुष्टो भवति । किन्तु तावन्मात्रेण तस्य बुभुक्षा न निवर्तते । सिंहः स्व अङ्के विद्यमानमपि शृगालं त्यक्त्वा स्व बुभुक्षाशान्तये गजम् एव हन्ति । एवं तेजस्वी धीमान् पुरुषः स्वजीवने महति कष्टे आगते अपि स्वप्रतापसदृशमेव साधयितुं प्रयतते । कदापि स्वप्रतापात् न विरमन्ति ।