स्वस्त्यस्तु ते...
सुभाषितम्
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु गोहस्तिवाजिधनधान्यसमृद्धिरस्तु।
ऐश्वर्यमस्तु विजयोऽस्तु रिपुक्षयोऽस्तु कल्याणमस्तु सततं हरिभक्तिरस्तु।।
भारतेंदु-नाटकावली, द्वितीय अंक
svastyastu te kuśalamastu cirāyurastu gohastivājidhanadhānyasamṛddhirastu।
aiśvaryamastu vijayo'stu ripukṣayo'stu kalyāṇamastu satataṃ haribhaktirastu॥
पदच्छेदः
स्वस्ति, अस्तु, ते, कुशलम्, अस्तु, चिरायुः, अस्तु, गोहस्तिवाजिधनधान्यसमृद्धिः, अस्तु, ऐश्वर्यम्, अस्तु, विजयः, अस्तु, रिपुक्षयः, अस्तु, कल्याणम्, अस्तु, सततम्, हरिभक्तिः, अस्तु ॥
तात्पर्यम्
भवते सर्वदा शुभं भवतु, कल्याणं भवतु, भवान् दीर्घायुः च भवतु । भवतः गवां, गजानाम्, अश्वानां, धनस्य धान्यानां च संवृद्धिः भवतु । भवते सम्पत्तिः जयः च लभतु तथा भवतः शत्रूणां नाशः भवतु । सर्वदा भवतः कल्याणं भवतु हरौ भक्तिः च भवतु ।।
May there be happiness, prosperity, and long life to you. May you attain success in knowledge, wisdom, and efficiency. May your cows, elephants, horses, money, and grains grow completely. May you get prosperity and victory, and may all your enemies be destroyed. May your fortune and devotion towards Lord Hari be forever.